तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 412, कुल 914 में से
संदर्भ में पढ़ेंप्रपा० ६ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४०९
ऽजगवि अहमेवं हताऽस्मीति मा माऽस्था मनसि मननं मा कार्षीः । यद्यस्मात्कार-
णात्त्वं देवी देवतात्मिका सती पितृलोकं प्रेत्यैषि आगच्छसि । विश्ववारा सर्वैर्व-
णीयां प्रार्थनीया । नभसाऽऽकाशमार्गेण संव्ययन्ती द्युलोकं संवृण्वती । हे राज-
न्वि तथाविधा त्वं नोऽस्माकमुभौ लोकावेतल्लोकपरलोकौ पयसा क्षीरेणाभ्यावृङ्-
स्वाभित आवृत्तौ कुरु क्षीरपूर्णौ कुर्वित्यर्थः ।
इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना निप॑द्यत
उप॑ त्वा मर्त्य॒ प्रेत॑म् । विश्वं॑ पुरा॒णम॑नुपा-
लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि ।
कल्पः—"अथास्य भार्यामुपसंवेशयति—इयं नारी पतिलोकं वृणाना निपद्यत उप
त्वा मर्त्य प्रेतम् । विश्व