सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 413, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 413

तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम" इति । हे
नारि त्वं श्रियै संपदर्थं ब्रह्मणे ब्राह्मणजात्यर्थं तेजसे कान्त्यर्थं बलाय शरीरबलार्थं
मृतस्य पुरुषस्य हस्तात्सुवर्णमाददाना सत्यत्रैव लोके तिष्ठ । वयमपीह लोके
सुशेवाः सुखं सेवमानाः सन्तः स्पृधोऽस्माभिः सह स्पर्धमाना विश्वा अभिमातीः
सर्वाञ्छत्रूञ्जयेम ।
धनु॒र्हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से
बला॑य । अत्रै॒व त्वमि॒ह वयꣳ॑ सु॒शेवा॒ विश्वा॒ स्पृधो॑
अ॒भिमा॑तीर्जयेम । म॒णिꣳ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑
श्रि॒यै विशे॒ पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह वयꣳ॑
सु॒शेवा॒ विश्वा॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम ( ३ ) ।
कल्पः—“धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्रायौजसे बलाय । अत्रैव त्वमिह
वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेमेति राजन्यस्य । मणिꣳ हस्तादाददाना मृतस्य
श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेमेति
वैश्यस्य ” इति । एतौ मन्त्रौ पूर्वोक्तब्राह्मणमन्त्रवद्व्याख्येयौ ।
इ॒मम॑ग्ने च॒मसं॒ मा वि॑जीह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म् ।
ए॒ष य॑श्च॒मसो॑ दे॒वपा॑न॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ।
कल्पः—“ कथमू खल्वस्य पात्राणि प्रयुञ्ज्यादिति दध्ना सर्पिर्मिश्रेण पूरयित्वा
मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवावक्षणोर्हिरण्यशकलावाज्यस्रुवौ वा प्रत्यस्य कर्णयोः
प्राशित्रहरणं भित्त्वा शिरसि कपालानि ललाट एककपालं शिरस्तः प्रणीताप्रणयनं
चमसं निदध्याति—इममग्ने चमसं. मा विजीह्वरः प्रियो देवानामुत सौम्यानाम् । एष
यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम्” इति । हेऽग्ने , इमं चमसं मा विर्जी-
ह्वरः कुटिलं मा कुरु, मा नाशयेत्यर्थः । एष चमसो देवानां प्रियः, देवाश्चमसेन
सोमरसं पातुं वाञ्छन्ति · उतापि च सोम्यासां सोमयोग्यानामृत्विग्यजमानानां प्रियः
यश्चमसो देवपानो देवानां पानहेतुस्तस्मिंश्चमसेऽमृता देवा मादयन्तां यजमानं
हर्षयन्ताम् ।
अग्ने॒र्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ संप्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च ।
नेत्त्वा॑ धृ॒ष्णुर्हर॑सा जहृ॑षा॒णो दध॑द्विध॒क्ष्यन्पर्य॑ङ्कया॑तै ।


१ क. ख. सुखेन २ ग. ॰ह्वरः । अथ मुखादिणास्य । ३ ग. ॰णि नियुं॰ । ४ ग. ॰धार्ती