सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 411, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 411

हे भुवनस्य पते पालक देव तवेदं राजगवीरूपं हविरुपाकरोमीति शेषः ।
अ॒ग्नये॑ रयि॒मते॒ स्वाहा॑ ।
अथास्य हविषः स्वकाले प्राप्तो होमः कर्तव्यः । तद्धोममन्त्रोऽत्रैव प्रसङ्गादाम्नातः ।
कल्पः—तत्रैतद्गविरिडाँपात्र्या चमसेन वा जुहोति, “ अग्नये रयिमते स्वाहा ” इति ।
रयिमते धनवतेऽग्नये स्वाहुतमिदमस्तु ।
कल्पः—“तां घ्नन्त्युत्सृजन्ति वा यदि विघ्नन्ति तस्यां निहन्यमानायां सव्यानि
जानून्यनुनिघ्नन्तः पांसूनावमृजन्ते पुरुषस्य ” इति । पाठस्तु—
पु॒रु॒ष॒स्य॒ स॒याव॒र्यपे॒दघा॑नि॑ मृज्महे । यथा॑ नो॒
अत्र॒ नार्परः पु॒रा ज॒रस॒ आर्या॑ति, इति ।
सह यातुं गन्तुं शीलं यस्या राजगव्याः सा सयावरी । पुरुषस्य मृतस्य संबन्धिनी
हे सयावर्येघानि पापान्पे