सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 409, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 409

४०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०६अनु०१]
इदं त्वा॒ वस्त्रं॑ प्रथ॒मं न्वाग॒न्निति॑ ।
हे प्रेत त्वामिदं वस्त्रं प्रथमं नु प्रथममेवाऽऽगन्नागच्छतु ।
कल्पः—" अथास्येतरदपादत्तेऽपैतदूहेति तत्पुत्रो भ्राता वाऽन्यो वा प्रत्यासन्नबन्धुः
प्रतीतः परिधाय " इति । पाठस्तु—
अ॒पैतदू॑ह॒ यदि॒हाबि॑भ्रः पु॒रा । इ॒ष्टा॒पूर्तम॒नुसं॒पश्य॑
दक्षि॑णां य॒था ते॒ दत्तं॑ बहु॒धा वि ब॑न्धुषु, इति ।
हे प्रेत यद्वस्त्रं पुरा त्वमबिभर्धारितवानासि, एतदपोहापसारय । इष्टापूर्तं त्वयाऽ-
नुष्ठितं श्रौतं स्मार्तं च यत्कर्म तदनुसंपश्यानुक्रमेण स्मर । दक्षिणां च ब्राह्मणेभ्यो
दत्तामनुसंपश्य । ते त्वदीयं धनं बन्धुषु प्रीतिदानरूपेण बहुधा यथा विशेषेण दत्तं
तमपि प्रकारमनुसंपश्य । ततस्तदनुरूपं पुण्यलोकं गच्छेत्यभिप्रायः ।
इ॒मौ यु॑नज्मि ते॒ वह्नी॑ असुनी॒थाय॒ वोढ॑वे । याभ्यां॑
य॒मस्य॒ साद॑न॒ꣳ सु॒कृतां॒ चापि॑ गच्छा॒तात् ।
कल्पः—" अथैनमेतयाऽऽसन्द्या सह तत्तंस्येन कटेन वा संवेष्ट्य दासाः प्रवयसो
वहेयुरथैनमनसा वहन्तीत्येकेषामनश्चेद्युञ्ज्यात्— इमौ युनज्मि ते वह्नी असुनीथाय
वोढवे । याभ्यां यमस्य सादनꣳ सुकृतां चापि गच्छतात् " इति । हे प्रेत ते तवासुनी-
थाय प्राणसदृशस्य शरीरस्य नयनाय वोढवे शकटं वोढुं वह्नी वोढाराविमौ बलीवर्दौ
युनज्मि शकटे योजयामि । याभ्यां बलीवर्दाभ्यां यमस्य सादनं स्थानं सुकृतां चापि
पुण्यकृतां पुरुषाणामपि स्थानं गच्छताद्गमिष्यसि । तादृशौ युनज्मीत्यन्वयः ।
पू॒षा त्वे॒तश्च्या॑वयतु प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ददातु पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे॑भ्यः ।
कल्पः—अथैनमाददत आदीयमानमनुमन्त्रयते—पूषा त्वेतश्च्यावयतु प्र विद्वान
नष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्य इति
तृतीयमेतस्याध्वनो गत्वा निदधाति " इति । हे प्रेत पूषा योऽयं पोषको देवः सोऽ-
त्वामितो देशात्प्रच्यावयतु प्रचालयतु । कीदृशः । विद्वानानन्तव्यमार्गाभिज्ञः । अन-
ष्टपशुः । वाहका मनुष्या द्विपात्पशवः । अनड्वाहौ चतुष्पात्पशू । अनष्टा अनुपद्रुताः
पशवो यस्यासावनष्टपशुः, वाहकोपद्रवरहित्येन नेतुं समर्थः । भुवनस्य गोपाः
सर्वस्य लोकस्य रक्षकः । स तादृशः पूषा त्वामेतेभ्यः पूर्वसिद्धेभ्यः पितृभ्यः
१ ख. ॰च्छतु । क° । २ ग. तत्तल्पेन ।