सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 408, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 408

[Page Header: ४०५]

अथ कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठकस्याऽऽरम्भः ।
( तत्र प्रथमोऽनुवाकः )
हरिः ॐ ।
सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॐ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्रवर्ग्यब्राह्मणं प्रोक्तं पञ्चमे हि प्रपाठके ।
पितृमेधस्य मन्त्रास्तु दृश्यन्तेऽस्मिन्प्रपाठके ॥ २ ॥
तेषां च पितृमेधमन्त्राणां विनियोगो भरद्वाजकल्पे बौधायनकल्पे चाभिहितः ।
[त]त्राऽऽहिताग्नेर्मरणसंशये दहनदेशं जोषयते दक्षिणाप्रत्यक्प्रवणमित्यारभ्य भारद्वाज
माह—" अन्वारब्धे मृत आहवनीये स्रुगाहुतिं जुहोति परे युवाꣳसम् ” इति । बौधा-
[य]नोऽप्येवमेवाऽऽह— " अथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा
तस्य दक्षिणं बाहुमन्वारभ्य जुहोति परे युवाꣳसम् ” इति । पाठस्तु—
परे॑ यु॒वाꣳसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑म-
नपस्पशानम् । वै॒व॒स्वतꣳ॑ सं॒गम॑नं॒ जना॑नां
य॒मꣳ॑ राजानं॑ ह॒विषा॑ दुवस्यत, इति ।
हे पितृमेधकर्तारः पितॄणां राजानं यमं हविषा दुवस्यत प्रीणयत । कीदृशम् ।
[प्रवत]ः प्रकृष्टकर्मवतो भूलोकवर्तिभोगसाधनं पुण्यमनुष्ठितवतः पुरुषान् महीस्तत्तद्भोगो-
भूप्रदेशविशेषाननु परे युवाꣳसं क्रमेण मरणादूर्ध्वं प्रापितवन्तम् । तथा बहुभ्यः
[प्रार्थि]भ्यः पुण्यकृद्भ्यः पुण्यकृतामर्थे पन्थां स्वर्गस्योचितं मार्गमनपस्पशानमबाध-
म् । पापिन एव पुरुषान्स्वर्गमार्गाद्बाधेन नरकं प्रापयति नतु पुण्यकृत इत्यर्थः । वैव-
[स्वतं] विवस्वतः सूर्यस्य पुत्रम् । जनानां संगमनं पापिनां गन्तव्यस्थानरूपम् ।
कल्पः—"औदुम्बर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमाऽऽस्तीर्य तस्मिन्नेन-
नं निपात्योपान्तदशोनाहतेन वाससा प्रोर्णोतीद