सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 359, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 359

३५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०४अनु०४२]
अथ नामविशेषव्यवहारप्रदर्शनेन प्रशंसति—
ब्रह्मवादिनो वदन्ति(१)। यो वै वसीयाꣳसं यथाना-
ममुपचरति। पुण्यार्तिं वै स तस्मै कामयते। पुण्यार्ति-
मस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् ।
घर्म इति दिवाऽऽचक्षीत । सम्राडिति नक्तम् । एते
वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी ।
प्रिययैवैनं तनुवा(२)। प्रियेण नाम्ना समर्धयति ।
कीर्तिरस्य पूर्वा गच्छति जनतामायतः, इति ।
( प्रपा० ५ । अनु० ११ । विभा० ३ )
यो वै यः कोऽपि पुमान्भृत्यो वसीयाꣳसमतिशयेन वसुमन्तं धनिकं राजानम-
मात्यादिकं वा यथानामं तदीयं नामानतिक्रम्य नामकरणकाले संपादितेनैव नाम्नो-
पचरति, अधिपते स्वामिन्नित्यादिशब्दैर्विना भो देवदत्तेत्यादिकेनैव मुख्येन नाम्ना
तमाह्वयति । स भृत्यस्तस्मै धनिकाय पुण्यार्तिं वै भाग्यहानिमेव कामयते । उत्तमो-
पचारयोग्ये नीचव्यवहारात् । अथवा स धनिको राजादिस्तस्मै स्वाभाविकनाम्ना
व्यवहरते भृत्याय पुण्यार्तिं धनादिहानिं कामयते दण्डयितुमिच्छति । न केवलं
राजादिरेव किंतु यो मूढ एवं वेद स्वाभाविकनाम्नैव व्यवहारं निश्चिनोति, अस्मै
मूढाय राजादिप्रभुपारिसरवर्तिनः सर्वेऽपि पुरुषाः पुण्यार्तिं ताडनधनहान्यादिकं काम-
यन्ते । एवं ब्रह्मवादिन आहुः । यस्मादेवं तस्मादेवं विद्वानामान्तरेणैव प्रभुर्व्यवहर-
णीय इत्येवं जानन्पुरुषः प्रवर्ये प्रत्यहनि घर्म इति नाम्ना व्यवहरेत् । रात्रौ तु सम्रा-
डिति नाम्ना । तत्र घर्मशब्देनोच्यमाना दीप्यमाना या तनूः सम्राट्शब्देनोच्यमाना
सम्यग्राजमाना या तनूरेते उभे अप्येतस्य प्रवर्ग्यस्य प्रिये शरीरे, अस्य घर्मसम्राट्-
शब्दरूपे अस्य प्रवर्ग्यस्य प्रिये नामनी । तस्मादेताभ्यां शब्दा[भ्यां] व्यवहरन्पुरुषः
प्रिययैव तनुवा देवादिरूपेण प्रियेण च नाम्ना तच्छरीरोचितेनैव प्रवर्ग्यं समृद्धं
करोति । तथा सति जनतामायतो जनसमूहं सभां प्रत्यागच्छतोऽस्य धर्मादिनामभि-
र्व्यवहारिणः पुरुषस्य कीर्तिः पूर्वाऽस्मादपि पुरुषात्पूर्वभाविनी गच्छति । अस्य पुरु-
षस्याऽऽगमनात्प्रागेव सर्वेऽपि सभानिष्ठा यतचित्ता(त्तोऽ)भिज्ञोऽयं महात्मेत्येव-
मेनं प्रशंसन्ति ।
धर्मादिनामविशेषद्वारा प्रवर्ग्यस्य प्रशंसां कृत्वा गायत्रीच्छन्दोगतसंख्यासाम्येनापि
प्रशंसति—
गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानुव्य-
भवन् । प्रवर्ग्येणाऽऽप्नुवन् । यच्चतुर्विꣳशतिकृत्वः प्रवर्घ्य
१ क. ख. ॰रणे पुरु° । २ ग. ॰ष्ठा जना रुचिताभि° । ३ क. ख. ॰भिज्ञाय° ।