तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 352, कुल 914 में से
संदर्भ में पढ़ेंप्रपा०४ अनु०४२ ] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३४९
रहितैः । नोऽस्माकं तदश्विनोः पालनं मित्रादयो मामहन्तामतिशयेन पूजयन्तु ।
सेन्धुः समुद्रः ।
अथ पञ्चदशं मन्त्रमाह—
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः
सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता, इति ।
कस्य प्रजापतेः संबन्धिनीत्यास्मिन्नर्थे केति शब्दः स्त्रीलिङ्गो वर्तते । ऊतीशब्दो
क्षावाची । कयोत्या प्रजापतिसंबन्धिना रक्षणेन चित्र आभुवत्, चित्रोऽयं यज्ञो
ऽस्मान्प्रत्यागतः । कीदृशो यज्ञः । सदावृधः सर्वदा वर्धमानः । सखा सखि-
त्प्रियतमः । स च यज्ञः कया प्रजापतिसंबन्धिन्या शचिष्ठयाऽतिशयितया शक्त्या
ता वर्तते ।
अथ षोडशं मन्त्रमाह—
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स-
दन्ध॑सः । दृ॒ढाचि॑दा॒रुजे॒ वसु॑, इति ।
हे प्रवर्त्य त्वां कः प्रजापतिर्मत्सन्मदयतु हर्षयतु । कीदृशः प्रजापतिः । सत्यः
रमार्थभूतः । मदानां हर्षकारणानामायुरादीनामन्धसोऽन्नस्य च मंहिष्ठोऽतिशयेन
र्धयिता । आरुजे सर्वतोऽनिष्टभङ्गार्थं वस्वपेक्षितं धनं दृढाचिद्दृढमेव करो-
विति शेषः ।
अथ सप्तदशं मन्त्रमाह—
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रि-
तॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑:,इति ।
हे प्रजापते जरितॄणां जरणशीलानां सखीनां सखित्वप्रियाणां नोऽस्माकं शत-
[ऊ]तिभिः शतसंख्याकै रक्षणैः, अभी षु सर्वतः सुष्ठु अविता भवासि रक्षिता भव ।
अथाष्टादशं मन्त्रमाह—
वय॑: सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो
नाध॑मानाः । अप॑ ध्वान्तमूर्णुहि पू॒र्धि चक्षु॑र्मु-
मुग्ध्य॑स्मान्निध॒ये॑व ब॒द्धान् ( ३ ), इति ।
केचिदृषय इन्द्रमुपसेदुः । कार्यार्थं प्राप्तिरुपासतिः । कीदृशा ऋषयः । वयः