तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 349, कुल 914 में से
संदर्भ में पढ़ें३४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०४अनु०४२]
तृतीयं मन्त्रमाह—
इडा॑यै वास्त्व॑सि वास्तुम॒द्वास्तु॑मन्तो भूयास्म॒ मा वास्तो॑श्छित्स्म
ह्यवा॑स्तुः स भू॑याद्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मः॑, इति ।
हे भूमे त्वमिडायै धेनुरूपाया इडादेव्या वास्त्वसि निवासस्थानमसि । सर्वे जग-
स्त्वत्प्रसादाद्वास्तुमन्निवासस्थानयुक्तं भवतु । वयमपि त्वत्प्रसादाद्वास्तुमन्तो निवास-
स्थानयुक्ता भूयास्म । वास्तोर्निवासस्थानान्मा छित्स्म विच्छिन्ना मा भूयास्म । हि
यस्माद्वयमेवंविधास्तस्मादस्माकं विपरीतो यो द्वेष्टा यश्च द्वेष्यः सोऽयमवास्तुर्निवास-
स्थानरहितो भूयात् ।
अथ चतुर्थं मन्त्रमाह—
प्र॒ति॒ष्ठाऽसि॑ प्र॒ति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया॑श्छित्स्म
ह्यप्र॑तिष्ठः स भू॑याद्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्विष्मः॑, इति ।
प्रतिष्ठाऽऽधारः । अन्यत्पूर्ववत् ।
अथ पञ्चमं मन्त्रमाह—
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑ः ।
त्वꣳ हि वि॒श्वभे॑षजो दे॒वानां॑ दूत ईय॑से, इति ।
हे वात वायो मे भेषजं यथा भवति तथाऽऽवाहि । अस्मान्प्रति सर्वतो वातं कुरु।
हे वात यद्रपः पापमस्ति तद्विवाहि विश्लेष्य गच्छ । यस्मात्त्वं विश्वभेषज शोन
विश्वस्य चिकित्सको देवानां दूतश्च सन्नियसे गच्छसि ।
अथ षष्ठं मन्त्रमाह—
द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रावतः ( १ ) ।
दक्षं॑ मे अ॒न्य आ॑वातु परा॒ऽन्यो वा॑तु॒ यद्रप॑ः, इति ।
इमौ लोके दृश्यमानौ द्वौ वातावासिन्धोः समुद्रसहिते प्रदेश आपरावतो दूर-
वर्तिलोकयुक्ते देशे वातः संचरतः । शान्तो वायुरेकस्तीव्रोऽपरः । तयोर्मध्येऽन्य एकः
शान्तो मे मम दक्षमावातु सुखं संपादयतु । अन्यस्तीव्रो वायुर्यद्रपो मम यत्पापमस्ति
तत्परावातु विनाशयतु ।
अथ सप्तमं मन्त्रमाह—
यददो॑ वात ते गृ॒हेऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जीवसे॑
१ क. ख. ॰हरवाहि वि० ।