तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 330, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०४अनु०२०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३२७
कल्पः—“यदि भिद्येत विधुं दद्राणमिति संदध्यात्” इति । पाठस्तु—
विधुं॒ दद्रा॑ण॒ᳵ सम॑ने बहु॒नाम् । युवा॑न॒ᳵ सन्तं॑
प॒लि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒-
त्वाऽद्या म॑मार॑ । स ह्यः समा॑न, इति ।
बहूनां कर्मणां समने समीचीनचेष्टारूपेऽनुष्ठाने दद्राणं भूयः प्रवर्तमानं विधुमनु-
ज्ञानस्य विधातारं महावीरं युवानं यौवनोपेतपुरुषवद्दृढमेव सन्तं पलितो वयोहीनस्-
तः शैथिल्यविशेषो जगार निगीर्णवान् । देवस्य जगद्विधातुः परमेश्वरस्य काव्य-
मभिज्ञानरूपं महित्वा महिमानं पश्य हे जनसमूहावलोकय । किं तन्माहात्म्यमिति
तदुच्यते । स महावीरो ह्यः पूर्वेद्युः समान सम्यक्चेष्टितवान् । अद्यास्मिन्दिने ममार
म्रोऽभूत्, ईदृशं खल्वीश्वरस्य माहात्म्यम् ।
कल्पः—“ततो यानि दृढार्थे संश्लेषणानि स्युस्तैरेनमाभिसंदध्यात्, यदन्यन्मासा-
माषेभ्यश्च । यद्वते चिदभिश्रिष इति । भिन्नं महावीरं विधुं दद्राणमिति मन्त्रेण संधाय
दृते चिदिति मन्त्रेण संश्लेषणसाधनैरुपलिम्पेत्” [इति] । पाठस्तु —
यद्दृ॒ते चि॑द॒भिश्रि॑षः । पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ । संधा॑ता सं॒धिं
म॒घवा॑ पु॒रोव॑सुः (१) । निष्कर्त्ता॒ विह्र॑तं॒ पुन॑ः, इति ।
यन्महावीरस्वरूपं जर्तृभ्यः पुरा कपालॅर्जरणेभ्यः कपालानां चूर्णीभावेभ्यः पूर्वम-
भिश्रिष ऋतेऽभितः संश्लेषणसाधनानि द्रव्याणि विनाऽऽतृदस्तर्दनं भङ्गं प्राप्नोत् ।
महावीरस्य मघवेन्द्रः संधिं संधानं [ संधाता ] करिष्यति । कीदृशो
। पुरोवसुः पुरतोऽवस्थितानि वसूनि संश्लेषणसाधनानि द्रव्याणि यस्यासौ
सुः । इत्थं स इन्द्रो विहृ(हरू)तं विशेषेण भग्नं महावीरं पुनर्निष्कर्ता पुनरपि
रिष्यति ।
पुन॑रू॒र्जा सह र॒य्या ।
ल्पः—“यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येत्येताभ्यामेनं
रीयुः” इति । त्रिः परिषिञ्चन्पर्येतीति यदुक्तं तत्राधिकपर्यावर्तने, त्रिः पुनः [प्रति]-
न्तीति विपरीतावर्तने यदुक्तं तदकरणेऽप्येतत्प्रायश्चित्तम् । तत्र मन्त्रेणोदितं
१ ग. संदध्यात् 'इ'. २ ग. ˚मेवं स˚ । ३ ग. ˚संदृद्यात् । ४ क. ˚म्पेत् । पा० ।
विहृतं । ६ क. ख. ˚लक्षर˚ । ७ क. ख. ˚नां भूतिभावस्य पू˚। ८ ग. मन्त्रयोर्गादिर्हं प्र० ।