तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 329, कुल 914 में से
संदर्भ में पढ़ें३५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०४अनु०२०]
कल्प॑न्ताम् । सं॒व॒त्स॒रस्ते॑ कल्पताम् । अहो॑रा॒त्राणि॑ ते
कल्प॑न्ताम् । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । प्र॒जाप॑-
तिस्त्वा सादयतु। तया॑ दे॒वत॑याऽङ्गि॒रस्वद्ध्रु॒वः सी॑द, इति।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठक एकोन-
विंशोऽनुवाकः ॥ १९ ॥
इष्टकाभिर्निष्पन्न हे देव त्वमग्निरसि । अङ्गारैर्विनेष्टकाशरीरमात्रेणैवाग्नित्वम् ।
वैश्वानरो विश्वेषां नराणामुपकारकोऽसि । प्रभवादीनामेकैकपञ्चके वर्तमानाः शब्दाः
संवत्सरादयः । सर्वेष्वनुगतो वत्सरः । त्वमेवं षड्विधोऽसि । तस्य तथाविधस्य त
ऊर्जरूपस्य वसन्ताद्यृतवः शिरआद्यवयवाः । चैत्रादिमासेषु ये शुक्लपक्षास्ते चितिरूपाः।
ये च कृष्णपक्षास्ते पुरीषरूपाः । यान्यहोरात्राणि तानीष्टकारूपाणि । तस्य ते तादृ-
शस्य तव मासादयः स्वस्वकार्यक्षमा भवन्तु । इतिशब्दशिरस्का आप्रविसमुद उपसर्गा
अत्र निर्दिष्टाः । तैरूचितक्रियां संयोज्याग्निः¹ स्तोतव्य इति तात्पर्यार्थः ।
उचितक्रियाणां च बहूनां संभवान्महती स्तुतिः संपद्यते । प्रजापतिरित्यादि पूर्ववत् ।
अग्निविशेषणत्वादध्रुव इति (पुं)लिङ्गनिर्देशः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै-
त्तिरीयारण्यकभाष्ये चतुर्थप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥
अथ चतुर्थे विंशोऽनुवाकः।
भूर्भुवः॒ सुव॑ः ।
[कल्पः--] "भूर्भुवः सुवः, इति सर्वप्रायश्चित्तानि" इति । त्रयो लोकाः सुखप्रदा
भवन्त्विति मन्त्रत्रयस्यार्थः ।
कल्पः-- "यदि महावीरः पद्येतोर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामुच्छ्रयति" इति² ।
पाठस्तु-
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॑ । ऊ॒र्ध्वो न॑ः पा॒ह्यंह॑सः, इति ।
एतच्च मन्त्रयोः प्रतीकद्वयम् । तौ च मन्त्रावञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके
व्याख्यातौ ।
१ ग. ॰ज्याग्निहोत्रं स्तोतव्यमिति। २ ख. 'ति । ऊँ० ।