सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 328, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 328

प्रपा० ४ अनु० १८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३५५
ये ते॒ अ॒र्द्रा॒ इन्द॑वो॒ या उ॑ नाम॑यः । यास्ते॑ अग्ने
तनू॒व ऊर्जा॒ नाम॑ । ताभि॑स्त्वमु॒भयी॑भिः संवि॒-
दानः॑ । प्र॒जाभि॑रग्ने॒ द्रवि॑णे॒ह सी॑द । प्र॒जाप॑तिस्त्वा
सादयतु । तया॑ देव॒तयाऽङ्गि॒रस्वद्ध्रु॒वा सी॑द॒ इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठकेऽ-
ष्टादशोऽनुवाकः ॥ १८ ॥
हेऽग्ने ते त्वदीया आर्द्रा योनयोऽश्वत्थवृक्षादिरूपा आर्द्राः कारणविशेषाः
सन्ति । “अश्वत्थाद्धव्यवाहाद्वि जातामग्नेस्तनुं यज्ञिया ५ संभरामि” इति श्रुतेः । याश्च
हुतायिनीराहवनीयादिस्थानविशेषाः सन्ति । हेऽग्ने ते त्वदीया इन्दवश्चन्द्रप्रभृतयः
स्थानविशेषा ये सन्ति । या ऊर्जुना (उ ना)भयो याश्चोर्जुना(याश्च वा) म्प्रभृदि-
स्थानविशेषाः सन्ति । हेऽग्ने ते त्वदीया याश्चान्यास्तनुव ऊर्जो नामौषध्यादिरू-
पत्वेनोर्जनामधारिण्यः सन्ति । ताभिः सर्वाभियुक्तस्त्वमुभयीभिर्देवीभिर्मानुषी-
भिश्च प्रजाभिः संविदान ऐकमत्यं गतस्त्वमिह क्षेत्रे द्रविणास्माकं धननिमित्तं
ऽग्ने सीद तिष्ठ । प्रजापतिरित्यादि पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये चतुर्थप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥
═══════════
अथ चतुर्थ एकोनविंशोऽनुवाकः ।
कल्पः—“अध्वर्युरग्निमभिमृशत्यग्निरसि वैश्वानरोऽसीत्यनुवाकेन” इति । पाठस्तु—
अ॒ग्निर॑सि वैश्वान॒रोऽसि॑ । सं॒व॒त्स॒रोऽसि॑ । प॒रि॒व॒त्स॒-
रोऽसि॑ । इ॒दाव॑त्स॒रोऽसी॑दुवत्स॒रोऽसि॑ । इ॒द्वत्स॒रोऽसि॑
व॒त्स॒रोऽसि॑ । तस्य॑ ते वस॒न्तः शिरः॑ । ग्री॒ष्मो द॒क्षि॑णः
प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः प॒क्षः । हे॒मन्तो मध्य॑म् ।
पूर्व॑पक्षाश्चित॑यः । अप॑रपक्षाः पुरी॑षम् । अहो॑रात्राणी-
ष्टका॑ः । तस्य॑ ते मासा॑श्चार्धमा॒साश्च॑ कल्पन्ताम् । ऋ॒तव॑स्ते
१ ग उर्जुनां॰ । २ क, ख. ॰न्ति । हेऽ॰ । ३ क. ख. ॰ग्ने त इ॰ । ४ क. ख. ॰न्दवो
यान्या॰ । ५ क. ख 'हाः । ऐडिक्या वित्याऽध्व॰ ।