सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 327, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 327

३२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० १७]
प्रि॒यं प्र॒जया॑ प॒शुभि॑र्भूवत् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द॒ इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपा-
ठके सप्तदशोऽनुवाकः ॥ १७ ॥
भानुः सूर्योऽस्याग्नेः शुष्माद्बलादुदेति । उच्छब्देनाऽऽकाङ्क्षितत्वादेतीत्यध्या-
हर्तव्यः । स च भानुर्नाऽऽर्ति *न प्राप्तः । पुनः पुनरुदयं गच्छतोऽप्यग्निबल-
साहाय्यादार्तिस्तस्य न विद्यते । पृथिवी न भूमिरिव भूमिप्रयातं(?) भारं बिभर्ति ।
यथा पृथिवी प्राणिनां भारं सहते तथाऽयं रश्मिभारं सहते । तस्याग्नेः प्रसादाच्छुभ्रा
निर्मला मनीषा देवी कर्मणि मनः प्रेरयन्ती देवता प्रकर्षेणैतु प्राप्नोतु । १ किंनिमित्त-
[L