तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 326, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०४अनु०१७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३२३
अथ चतुर्थे षोडशोऽनुवाकः ।
अनुवाकान्तरमाह—
पू॒ष्णे स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॑ । पू॒ष्णे प्र॑प॒थ्याय॑
स्वाहा॑ पू॒ष्णे नरं॑धिषाय॒ स्वाहा॑ । पू॒ष्णेऽङ्घृ॒णये॒ स्वाहा॑
पू॒ष्णे नरु॑णाय॒ स्वाहा॑ । पू॒ष्णे सांके॒ताय॒ स्वाहा॑, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठके
षोडशोऽनुवाकः ॥ १६ ॥
पोषको देवः पूषा । स एव विशेषणभेदाद्भिद्यते । शरसे शत्रूणां हिंसकाय ।
प्रपध्याय प्रकृष्टस्वर्गमार्गहिताय । नरान्मनुष्यान्धिनेाति प्रीणयतीति नरंधिषः, तस्मै ।
अङ्घृणिरञ्जनेन दीप्यमानः, तस्मै । नृ नय इति धातोर्नरुणशब्दः । प्राणिनां स्वस्व-
मार्गेषु नेता नरुणः, तस्मै । आ समन्ताज्ज्ञानमाकेतस्तेन सह वर्तत इति साकेतः,
तस्मै ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीया-
रण्यकभाष्ये चतुर्थप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥
अथ चतुर्थे सप्तदशोऽनुवाकः ।
कल्पः—“ घर्मेष्टकामुपदधात्युदस्य शुष्माद्द्रानुरित्यनुवाकेन” इति । एतच्च महाग्नि-
चयने द्रष्टव्यम् । तथा च तत्र सूत्रकारेणोक्तम्—“ घर्मेष्टकामुपधाय कुलायिनी तयोः
योगे मन्त्रौ ” इति । पाठस्तु—
- उद॑स्य शु॒ष्माद्भा॒नुर्नाऽऽर्त॒ बिभ॑र्ति । भारं॑ पृ॑थि॒वी न भूम॑ ।
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्मत्सूत॑ष्टो॒ रथो॒ न वा॒जी ।
अर्च॑न्त॒ एके॑ म॒हि साम॑ मन्वत । तेन॒ सूर्य॑मधायन् । तेन॒
सूर्य॑मरोचयन् । घ॒र्मः शिर॒स्तदयम॒ग्निः । पु॒रीष॑मसि॒ सं - उदस्येत्यादिभूमित्यन्तस्य वाक्यस्यार्थ ऋग्वेदभाष्येऽप्यस्ति स यथा—“अस्य यज्ञस्य
[शु]ष्माद्भानुः सूर्य उद्गतोद्गच्छति । भूम भूतानि पृथिवीव भारं लोकस्यायं यज्ञो बिभर्ति च ”
ति । तत्र प्रकरणानुरोधेन यज्ञप्रशंसाऽत्र त्वग्निशंसेति विशेषः ।
१ ख. ग. प्रवर्ये ।