सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 322, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 322

प्रपा०४अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३१९
उत्तरवेदेः पूर्वभागे पश्चिमभागे वा प्रवर्ग्यमुद्वासयेत् । प्रवर्ग्यस्वरूपमिदमादित्य-
ज्योतिः पुरस्तादुदेति पश्चादस्तमेति । ततस्तयोरुभयोरपि तदीयस्थानत्वात्स्वकीय-
व स्थानमनुसृत्योद्वासयति ।
अन्यं देशविशेषं विधत्ते—
अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज्ज्यो-
तिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं
योनौ प्रतिष्ठापयति ( ४ ), इति ।
( प्रपा० ५ । अनु० १० । विभा० ७ )
ऐतदौर्वविद्युत्स्वरूपं ज्योतिरपां मध्यादजायत । प्रवर्ग्यश्च ज्योतिःस्वरूपः ।
तस्मादेनं प्रवर्ग्यं स्वकीय एव स्थाने प्रतिष्ठापयति ।
देशान्तरं विधत्ते—
यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निवै-
श्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभिप्रवर्तयति, इति ।
( प्रपा० ५ । अनु० १० । विभा० ८ )
यजमानो यं पुरुषं द्विष्यात्स द्वेष्यो यस्यां दिशि तिष्ठति तस्यां दिशि प्रवर्ग्य-
मुद्वासयेत्। प्रवर्ग्यस्य वैश्वानराग्निरूपत्वादेनं द्वेष्यमभिलक्ष्य वैश्वानराग्निनेव प्रवर्तयति ।
तेनाग्निना तमभितो दहतीत्यर्थः ।
तत्रैव कंचिद्विशेषं विधत्ते—
औदुम्बर्या५ शाखायामुद्वासयेत् । ऊर्जा उदुम्बरः । अन्नं
प्राणः । शुग्घर्मः ( ५ ) । इदमहममुष्याऽऽमुष्या-
यणस्य शुचा प्राणमपिंदहामीत्याह । शुचैवास्य
प्राणमपिदहति । ताजगार्तिमार्च्छति, इति ।
( प्रपा० ५ । अनु० १० । विभा० ९ )
उदुम्बरवृक्षस्य येयं शाखा तस्यां प्रवर्ग्यमुद्वासयेत् । उदुम्बरस्यान्नरूपत्वात्,
अन्नस्य प्राणस्थितिहेतुत्वात्, घर्मस्य च संतापरूपत्वात्, तदनुसारेणोद्वासनकाल इद-
महादिमन्त्र पठेत् । आमुष्यायणस्य देवदत्तपुत्रस्यामुष्य यज्ञदत्तस्य प्राणमिदं
प्रत्यक्षं यथा भवति तथा शुचा संतापेनापिदहामि सर्वतो दग्धं करोमि । एतन्मन्त्र-
पाठनास्य द्वेष्यस्य प्राणं संतापेन दहंत्येव । तदानीमेवासावार्तिं प्राप्नोति ।
देशान्तरं विधत्ते—
यत्र दर्भा उपदीकसंताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता
१ क. ॰तदेव वि° । २ क. ग. यक्ष्यमाणो । ३ क. ग. ॰तू । ऊर्जा