तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 323, कुल 914 में से
संदर्भ में पढ़ें३२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ४ अनु० ११]
वा अ॒पामनू*ञ्जावर्या॑ नाम । यद्ध॒र्मः । असौ खलु वा आदि॒त्य
इ॒तो वृष्टिमुदी॑रयति । अ॒सावे॒वास्मा आदि॒त्यो वृष्टिं निय॑-
च्छति । ता आपो॑ निय॒ता धन्व॑ना यन्ति ( ६ ) , इति ।
( प्रपा० ५ । अनु० १० । विभा० १० )
गोः पय उत्तरवेदिकासते स्थापयति घर्मो यन्ति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
यस्मिन्देशे दर्भा उपदीकसंताः स्तम्बैरविच्छिन्ना भवन्ति । वृष्टिकामस्तत्रोद्वास-
येत् । य एते दर्भा एता एवापामनूज्झावर्या इत्येतन्नामभाजो भवन्ति । अनुज्झा
अनुक्रमगताः प्रवाहाः, तद्युक्ता नद्योऽनू³ज्झावर्याः । आपो वै दर्भा इति श्रुत्यन्तराद्-
र्भाणामविच्छिन्नप्रवाहोपेतनदीरूपत्वम् । प्रवर्गेरंग्यश्चाऽऽदित्यरूपत्वादादित्यवद्वृष्टिप्रदः
अतो दर्भेषु तदुद्वासने सत्यादित्यो द्युलोकाद्वृष्टिं प्रेरयति । ताश्चाऽऽपो धन्वन
मरुदेशेन सह नियताः प्रवर्तन्ते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये चतुर्थप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥
अथ चतुर्थे द्वादशोऽनुवाकः ।
एकादशे प्रवर्ग्योद्वासनमुक्तम् । तत्र महावीरे द्रव्यपूरणावसरे घर्मैतत्तेऽन्नमिति
मन्त्रात्पूर्वं त्रयो मन्त्रा अपेक्षिताः, तेऽत्र द्वादशेऽभिधीयन्ते ।
म॒हीनां पयो॑ऽसि वि॒हितं॑ दे॒वत्रा ।
कल्पः—"महीनां पयोऽसीति महावीरे गोपय आनयति" इति । विहितं देवत्रे-
मन्त्रशेषः । हे द्रव्य देवत्रा देवनििमत्तं विहितं संपादितं महीनां गवां पयोऽसि ।
ज्योति॑र्भा अ॑सि वन॒स्पती॑नामोष॑धीनाꣳ रस॑ः ।
कल्पः— "ज्योतिर्भा असि वनस्पतीनामोषधीनाꣳ रस इति मधु” इति । महा
आनयतीत्यनुवर्तते । हे मधुद्रव्य वनस्पतीनामोषधीनां च रसभूतस्त्वं ज्योति-
र्ज्योतिषा प्रकाशकोऽसि ।
*अत्र ग. पुस्तके मूले टीकायां च 'अनुज्जावर्यः' इति पाठः ।
१ ग. ˚मनुञ्जाव । २ ग. अनुञ्जा । ३ ग. ˚द्योऽनुञ्जाव । ४ ग. ˚र्ग्यस्याऽऽदि ।
५ ग. ˚तिर्भा प्र° ।