तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 29, कुल 914 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into Devanagari, including all Vedic svara accents, mantras, and Sāyaṇa's commentary:
नि जानु॑का मे॒ न्य॑ञ्जलिका । अमी वाच॒मुपा॑संता॒मिति॑, इति ।
हे शिशिरर्तों त्वमञ्जलिकां हस्ताग्रवर्तिनमञ्जलिं निकरोषि न्यग्भूतं करोषि । यथा
जानुका जानुप्रदेशमपि त्वं निकरोषि न्यग्भूतं करोषि सर्वे प्राणिनः शीतबाहुल्या-
दग्निसेवार्थं हस्तौ न्यग्भूतौ कुर्वन्ति । उदरादिदेहावयवतापनाय व्यवधानभूते जानुनी
अपि भूमिस्पर्शिनी यथा भवतस्तथा न्यग्भूते कुर्वन्ति । स्वयमेवं कुर्वन्तो बुद्धिमन्तोऽ-
प्रबुद्धान्बालान्प्रत्येवमुपदिशन्ति । हे बाला अमी भवन्त ईदृशीं वाचमुपासताम् ।
कीदृशी वागिति तदुच्यते—मे मदीया जानुका न्यग्भूता भवतु, अञ्जलिकाऽपि
न्यग्भूता भवत्विति । श्रौत इतिशब्द एवंविधलक्षणप्रदर्शनार्थः । अनुक्तम