तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 28, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १ अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २१
अथ प्रथमप्रपाठके षष्ठोऽनुवाकः ।
कल्पः—“ अत्यूर्ध्वाक्ष इति त्रीण्युतुमण्डलान्यवद्रप्स इति च ” इति । ऋतुमण्ड-
लशब्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तत्र प्रथमामृचमाह—
अ॒त्यू॒र्ध्वाक्षोऽति॑र॒श्चात् । शि॒शि॒रः प्र॒दृश्य॑ते ।
नैव रू॒पं न वास॑ांसि । न चक्षु॑ः प्रति॒दृश्य॑ते, इति ।
योऽयं शिशिर ऋतुः सोऽयं प्राणिषु प्रकर्षेण दृश्यते । कीदृशः शिशिरोऽत्यू-
र्ध्वाक्षः । तस्मिन्नृतौ यदा शीतबाहुल्यं भवति तदानीं कम्पमानाः प्राणिनो हस्ताभ्या-
मुर आच्छादयन्तो मुखेन सीत्कारं कुर्वन्तो द्वे भ्रुवावत्यूर्ध्वमुन्नमयन्ति तदिदं तस्यर्तों-
रत्यूर्ध्वाक्षत्वम् । शीतपीडितत्वादेव दक्षिण