तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 289, कुल 914 में से
संदर्भ में पढ़ें२८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० ४ अनु० ८]
सुव॑र्मे यच्छ । दिवं॑ यच्छ दि॒वो मा॑¹ पा॒हि ( ५ ), इति ॥
एहि॑ पा॒हि पिन्व॑स्व॒ गृहा॒म्यर्व॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके चतुर्थप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
हे प्रवर्ग्य त्वं तेजोरूपोऽसि । अतस्तेजोरूपमाहवनीयमनुलक्ष्य प्रेहि प्रकर्षेण गच्छ।
अत्युष्णस्त्वं द्युलोकादीन्स्पृशन्नपि मा [मा] हिंसीः, तापं मा कुरु । सुवरसिं² त्वमेव
स्वर्गे³रूपोऽसि । अतः स्वर्ग⁴सुखं मे प्रयच्छ । तत्सुखाधारं दिवं द्युलोकं मे प्रयच्छ⁵।
दिवो द्युलोकान्मां पाहि । तत्र⁶ राक्षसप्रवेशं निवार्य पालय ।
मन्त्रस्य पूर्वभागे तेजोऽनुप्रेहीत्यस्य तात्पर्यं दर्शयति-
वि वा एनमेतदर्धयन्ति । यत्पश्चात्प्रवृज्य पुरो जुह्वति ।
तेजोऽसि तेजोऽनुप्रेहीत्याह । तेज एवास्मिन्दधाति, इति ।
( प्रपा० ५ । अनु० ७ । विभा० २९ )
आहवनीयस्य पश्चिमभागे गार्हपत्यस्योत्तरदेशे प्रवर्ग्यं कृत्वा पुरः पूर्वस्यां दिश्या-
हवनीये जुह्वतीति यदस्ति एतेनैनं प्रवर्ग्यं [ व्यर्धयन्ति ] समृद्धिरहितं कुर्वन्ति
प्रवृञ्जनेनैव तेजसो⁸ गतत्वात् । अतस्तेजोऽनुप्रेहीत्युक्त्या द्रव्ये तेजः संपादितं भवति
मध्यमभागस्याहिंसापरत्वं दर्शयति-
दिविस्पृङ्मा मा हिंसीरन्तरिक्षस्पृङ्मा मा हिंसीः पृथिवि-
निस्पृङ्मा मा हिंसीरित्याहाहिंसायै ( ८ ), इति ।
( प्रपा० ५ । अनु० ७ । विभा० ३० )
तृतीयभागस्याऽऽशीःपरत्वं दर्शयति-
सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो
मा पाहीत्याह । आशिषमेवैतामाशास्ते, इति ।
( प्रपा० ५ । अनु० ७ विभा० ३१ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
══════════════════════════════════════
१ ग. (४)। २ क. ख. ॰सि स्व॰। ३ ग. ॰मैसुखरू॰। ४ क. ख. स्वर्ग्यं सु॰। ५
क. ख. यच्छ । ६ क. तत्राक्षिशब्दम्॰ । ख. तत्र रूप(क्षय)शब्दम्॰ । ७ क. ख. पुनः। ८
॰सोऽपग॰