तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 273, कुल 914 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the Sanskrit text in Markdown format with complete Devanagari Unicode, Vedic svara accents, and original punctuation:
२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ४ अनु० ५
सङ्गोचितभोगसिद्ध्यर्थमित्यर्थः । तथा दिवे द्युलोकप्राप्त्यर्थं, सूर्याय सूर्यप्राप्त्यर्थं
त्वामवेक्षे । इममस्मदीयमध्वरं यागमूर्ध्वं कृधि, उन्नत करो । होत्रा इमा होमक्रि-
दिवि द्युलोके देवेषु मध्ये यच्छ देहि कथयेत्यर्थः ।
अस्य मन्त्रस्य शारदर्तु(शरदृत्तु)परतां दर्शयति--
हृदे त्वा मनसे त्वेत्याह । शारदावेवास्मा ऋतू कल्पयति ( ६ ), इति ।
( प्रपा० ५ । अनु० ६ । विभा० २१ )
वसन्तवाक्यवद्व्याख्येयम् ।
मन्त्रचरमभागेन(ण)सर्वेषां लोकानां होमक्रियाभिसंबन्धं दर्शयति--
दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवैमाँल्लोकान्संदधाति, इति ।
[