सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 243, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 243

३६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० ४ अनु० ४]

······दीप्यमानमिमं महावीरमभिलक्ष्य मित्रो देवः सप्रथा विस्तारसहितो बभूव।
स्वकीयां मैत्रीं विस्तृतवान् । उतापि च पृथिवीमभिलक्ष्य श्रवसा कीर्त्या सप्रथा
बभूव। अस्यां सर्वस्यां पृथिव्यां महावीरस्य कीर्तिं विस्तृतवानित्यर्थः। दिवं दिवि
द्युलोक इति वा व्याख्येयम् । चर्षणीधृतो मनुष्यान्मैत्र्या धारयतो मित्रस्य देवस्य
सानर्सि दानशीलं श्रवः श्रवणं कीर्तिरूपं सर्वे वदन्तीति शेषः । द्युम्नं मित्रेण दत्तं
धनं चित्रश्रवस्तममतिशयेन विचित्रकीर्तियुक्तं वर्तते ।
मन्त्रयोः फलं दर्शयति—
वारुणोऽद्भिर्द्धः। मैत्रियोपैति शान्त्यै, इति ।
( प्रपा० ५ । अनु० ३ । विभा० २० )
सिद्धयै त्वा ।
कल्पः—“पकेषु सिद्धयै त्वेति धृष्टीमादाय भस्मापोह्य” इति । हे महावीर त्व
सिद्धयै समीचीनस्वरूपसिद्धयै महावीरगतभस्मापोहनसिद्धयर्थं त्वां स्वी करोमीति
शेषः ।
मन्त्रस्य स्पष्टार्थतां दर्शयति—
सिद्धयै त्वेत्याह । यथा यजुरैवैतत् , इति ।
( प्रपा० ५ । अनु० ३ । विभा० २१ )
कल्पः—“प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति देवस्त्वा सवितोद्वपतु
इति । पाठस्तु--
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु । सु॒पा॒णिः
स्व॑ङ्गु॒रिः । सु॒बा॒हुरुत श॒क्त्या॑, इति ।
हे महावीर त्वां सविता देवः स्वशक्त्योद्वपतु । इतोऽवटादूर्ध्वं नयतु । कीदृशः
सविता सुपाणिः शोभनाभ्यामुद्यमनकुशलाभ्यां पाणिभ्यां युक्तः । स्वङ्गुरिः
शोभनाभिरुद्वपनक्षमाभिरङ्गुलिभिर्युक्तः । उतापि च सुबाहुः शोभनाभ्यां बाहुभ्यां
युक्तः । पाणिशब्देन मणिबन्धादूर्ध्वमङ्गुल्याधारभाग उच्यते । बाहुशब्देन मणिब-
न्धादर्वाचीनभागः ।
सवितृशब्दस्य तात्पर्यं दर्शयति—
देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत
एवैनं ब्रह्मणा देवताभिरुद्वपति, इति ।
( प्रपा० ५ । अनु० ३ । विभा० २२ )


१ ल. धृष्टिमा' । २ क. ॰मनानुकूलकृ॰ । ख. ॰मेनानुकूला॰ ।