तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 244, कुल 914 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the page:
[प्रपा०४अनु०३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । २४१
सवित्रा प्रेरितः सन्मन्त्रेण देवताभिश्च सहोद्वपनं कृतवान्भवति ।
कल्पः—"उद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रति-
ष्ठाप्य" इति । पाठस्तु—
अ॒प॒द्यमा॑नः पृथि॒व्याम् । आशा॒ दिश॑ आपृण॒ ।
उत्ति॑ष्ठ बृ॒हन्भ॑व ( २ ) । ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वम्, इति।
हे महावीर त्वं पृथिव्यां भूमावपद्यमानोऽसि । भङ्गमप्राप्नुवन्नाशा दिशः
प्राच्याद्या मुख्यदिश आग्नेय्याद्या अमुरूपदिशश्चाऽऽपृण सर्वतः पूरय, सर्वत्र प्रसिद्धो
भव । उत्तिष्ठोत्सहस्व । बृहन्भव स्वव्यापारेण प्रख्यातो भव । इह सिकतासूर्ध्वमुखः
स्थिरस्त्वं तिष्ठ ।
दिश आपृणेत्यस्य