तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 236, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०४अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ३३३
मेवास्मिन्दधति । उद्धृते सिकतोपोप्ते परिश्रिते निदधति शान्त्यै, इति ।
( प्रपा० ५ । अनु० २ । विभा० २९ )
आयन्त्यागच्छेयुः । आर्याणां परिग्रहेण रक्षांस्यपहतानि भवन्ति । तेषां बहु-
त्वेनास्मिन्द्रव्ये पूजा कृता भवति । भूमेरुद्धननेन सिकतावापेन परितस्तिरोधानकरणेन
च तस्मिन्देशेऽवस्थापितस्य द्रव्यस्योपद्रवपरिहाररूपा शान्तिर्भवति ।
मधु॑ त्वा मधुल॒ा क॑रोतु ।
कल्पः—“मधु त्वा मधुला करोत्विति मदन्तीभिरुप॑सृजति” इति२ । हे संभारसमू-
हरूप द्रव्य मधु त्वा पूर्वमपि मधुरं महावीरनिष्पादनयोग्यं मृदुरूपं त्वामयं मदन्ती-
संसर्गः पुनरपि मधुला माधुर्ययुक्तं सौकार्यर्थ३(कुमार्य)युक्तं करोतु ।
अनेन मन्त्रेण साध्यं मदन्तीमेलनं विधत्ते—
मद॑न्तीभिरुपसृजति ( १२ ) । तेज॒ एवास्मि॑न्दधाति, इति ।
( प्रपा० ५ । अनु० २ । विभा० ३० )
तप्ता आपो मदन्त्यः, तन्मेलनादस्मिन्द्रव्ये तेजः संपादितं भवति ।
यद्यपि जलमेलनादेव महावीरनिष्पादनसामर्थ्यरूपं तेजः संपद्यते । तथाऽपि मन्त्रे-
णैव सामर्थ्यातिशयाय मन्त्रपाठ इत्येतद्दर्शयति—
मधु॑ त्वा मधुल॒ा करो॒त्वित्या॑ह । ब्रह्म॑णैवास्मि॒न्तेजो॑ दधाति , इति ।
( प्रपा० ५ । अनु० २ विभा० ३१)
अथास्मिन्द्रव्ये मेलयितव्यं द्रव्यान्तरं विधत्ते—
यद्ग्राम्या॑णां पात्रा॑णां कपा॒लैः सꣳसृजेत् । ग्राम्या॑णि
पात्रा॑णि शुचा॑ऽर्पयेत् । अर्म॑कपालैः सꣳसृजति । एतानि
वा अनु॑पजीवनीयानि । तान्ये॑व शुचा॑ऽर्पयति, इति ।
( प्रपा० ५ । अनु० २ । विभा० ३२ )
गृहेषु पाकार्थानि भाण्डानि ग्राम्यपात्राणि तदीयकपालैः संसर्गे सति तानि शुचा
शोकेन स(भ)ङ्गरूपेण योजितानि भवन्ति । तन्मा भूदित्यर्मकपालैर्मिश्रयेत । अर्मशब्देन
चिरन्तने जीर्णग्रामदेशे४ऽवस्थिता भाण्डांशा उच्यन्ते । तानि प्राणिभिरुपजीवितुमयोग्या-
न्यतस्तेषां शुचा योजनेऽपि न कश्चिद्दोषः ।
द्रव्यान्तरं विधत्ते--
शर्क॑राभिः सꣳसृ॑जति धृत्यै॑ । अथो॒ शांत्यै, इति ।
( प्रपा० ५ । अनु० २ । विभा० ३३ )
१ ग. ‘पंत५सू° । २ क. . ‘ति । सं° । ३ क ख. ‘क्तं क° । ४ क. ख. ‘शे ग्रा°।
३०