सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 227, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 227

भागमकल्पयन् । तत्र प्रथमग्रहणं पुरोनुवाक्यारूपाया गायत्रीदेवतायास्तुष्टिकरम् ।
द्वितीयग्रहणं याज्यारूपायास्त्रिष्टुब्देवतायास्तुष्टिकरम् । तृतीयग्रहणं देवतारूपाया जग-
तीदेवतायास्तुष्टिकरम् । चतुर्थग्रहणं वषट्कारारूपाया अनुष्टुब्देवतायास्तुष्टिकरम् ।
अतश्चतुर्गृहीतेन होमे सति छन्दोदेवताः प्रीणन्ति । ताश्च प्रीताः सत्यो हव्यं
वहन्ति ।
तत्र द्वौ पक्षौ । सोमयागसंकल्पादिकं कृत्वा दीक्षणीयेष्टेः प्रागेव प्रवर्ग्यसाधनं
महावीरादिकं संपादनीयमित्येकः पक्षः । दीक्षायां समाप्तायां प्रवर्ग्यानुष्ठानकाल एव
संपादनीयमित्यपरः पक्षः । तत्र प्रथमपक्षे सावित्रहोमो विहितः । द्वितीयपक्षे मीमां-
सया होमं निवार्य केवलमन्त्रपाठं विधत्ते—
ब्रह्मवादिनो वदन्ति । होतव्यँ दीक्षितस्य गृहा३ इ न
होतव्या३मिति । हविर्वै दीक्षितः । यज्जुहुयात् । हवि-
ष्कृतं यजमानमग्नौ प्रदध्यात् । यन्न जुहुयात् । ( २ ), इतिँ ।
( प्र० ५ । अ० २ । वि० ४ )
तत्र होमपक्षो न युज्यते । दीक्षितो हविःसंपादकत्वाद्वविरैव । तथा सति यदि
हविर्जुहुयात्तदानीं हविःसंपादकं यजमानमेवाग्नौ प्रक्षिपेत् ।
अहोमपक्षे तु—
यज्ञपरुरन्तरियात् यजुरेव वदेत् । न हविष्कृतं यजमा-
नमग्नौ प्रदधाति । न यज्ञपरुरन्तरेति , इति ।
( प्र० ५ । अ० २ । वि० ५ )
यज्ञस्य होमलक्षणमङ्गमन्तरितं भवेत् । ततो दोषद्वयपरिहारायाऽऽहुतिप्रक्षेपं प-
रित्यज्य यजुरेव पठेत् । यद्यपि युञ्जते मन इत्येषर्गेव तथाऽपि यजुर्वेदपठितत्वाद्यं
यज्यतेऽनुष्ठान इति व्युत्पत्त्या वा यजुरित्युच्यते । अत्र होमाभावान्नयजमानस्य प्रक्षेपो
न भवति । मन्त्रस्य पठितत्वाद्यज्ञाङ्गमपि नान्तरितं भवति ।
कल्पः—"देवस्य त्वा सवितुः प्रसव इत्याभ्रिमादत्ते” इति । पाठस्तु—
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो॑र्बा-
हुभ्या॑म् । पू॒ष्णो हस्ता॑भ्यामाद॑दे, इति ।
हेऽभ्रे प्रेरकस्यान्तर्यामिणो देवस्य प्रेरणे सत्याश्विनोः संबन्धिभ्यां बाहुदण्डाभ्यां
पूष्णः संबन्धिभ्यां हस्ताभ्यां च त्वामाददे स्वी करोमि ।
१ क. ख. ॰क्याया । २ ग. ॰म् । दे॰ । ३ क. ख. ॰र्णं ज॰ । ४ ग. ॰यागे सं॰ । ५ घ.
॰ति । यन्न जुहुयात्पुनस्तत्र । ६ क. ॰तू । य॰ । ७ क. ख. इति ऋगेषा त॰ । ८ ख. ॰र्ये
युज्य॰ ।