सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 226, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 226

१० अनु० १] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम् । ३२३
तस्मादेष आश्विनप्रवया इव । यत्प्रवर्ग्र्यः (७), इति ।
( प्र० ५ । अ० १ । वि० ७ )
उत्करो ह्येते तुन्दन्ति महावीरत्वममुवन्नजयन्सप्त च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
यदि प्रवर्ग्र्याख्यं कर्मानुतिष्ठेत् । तत्तर्हि यज्ञस्य शिर एव प्रतिसमाहितवान्भवति ।
सशीर्ष्णा शिरःसहितेन यज्ञेन यजमानः पुमानाशासनीयान्यन्यफलानि प्राप्नोति
चाभिजयति । यस्मादश्विभ्यां समाधानं कृतं तस्मात्कारणाद्यः प्रवर्ग्र्याख्यः कर्म-
वोऽस्ति स एष आश्विनप्रवया इति । आश्विनमन्त्राः प्रवयसः प्रवृद्धा अस्मिन्प्रवर्ग्र्ये
स्माश्विनप्रवयाः । इवशब्द एवकारार्थः ।
तदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रवर्ग्र्याख्यं कर्म विधाय द्वितीयानुवा-
युञ्जते मन इत्येतन्मन्त्रसाध्यं होमं विधत्ते—
सावित्रं जुहोति प्रसूत्यै, इति ।
( प्र० ५ । अ० २ वि० १ )
न्त्रे देवस्य सवितुः परिष्टुतिरित्युकत्त्वादयं मन्त्रः सावित्रः, तद्धोमः प्रसूत्यै प्रस-
संपद्यते ।
त्र द्रव्यं विधत्ते—
चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूने-
वावरुन्धे । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति, इति ।
( प्र० ५ । अ० २ । वि० २ )
वेण जुह्वां चतुर्वारं गृहीतं यदाज्यं तेन जुहुयात् । चतुःसंख्यासाम्यात्पशुप्राप्ति-
प्रतिष्ठा च ।
नरपि चतुःसंख्यां प्रकारान्तरेण प्रशंसति—
छन्दाग्ँसि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति ।
तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोनुवाक्यायै याज्यायै ( १ ) ।
देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाग्ँ-
स्येव तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति, इति ।
( प्र० ५ । अ० २ । वि० ३ )
नाविधच्छन्दोयुक्तपुरोनुवाक्याद्याभिमानिनो देवा हविर्भागेभ्यो देवेभ्योऽपरक्ताः
पागच्छन् । किं ब्रुवन्तो गता इति तदुच्यते— हे देवा भागरहितानि वयं
ग. ष्मदीयानि हवींषि न वक्ष्यामो हविर्वहनं न करिष्याम इति ब्रुवन्तः ।
वापि शिं० । होमकाले यच्चतुर्गृहणं तच्छन्दसां प्रीतिकरं भवतीति तेषां