सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 228, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 228

प्राविशत् । अतोऽभ्रिः खादिरी कर्तव्या । तथा सति च्छन्दसां संब-

  • न्धिना रसेन यज्ञस्य शिरः प्रवर्ग्यरूपं संपादितं भवति । गायत्र्यां हि त्रिष्टुप्संबद्धं
  • जगतीसंबद्धं चाक्षरद्वयमन्तर्भूतमिति कद्रूश्चेत्यत्र प्रतिपादितम् । ततो गायत्रीरसः सर्व-
  • च्छन्दसां रसो भवति । महावीराख्यं पात्रं निष्पादयितुं मृत्खननार्थोभयतस्तीक्ष्णा
  • व्याममात्री काष्ठकुद्दालरूपाऽभ्रिरित्युच्यते । व्याममात्रत्वादिलक्षणानि पञ्चमकाण्ड उखा-
  • संभरणप्रस्तावे दर्शितानि । 'अत एव सूत्रकारेण तल्लक्षणमतिदिश्यते— साग्निक्या
  • व्याख्यातेति ।
  • खदिरेण सह विकल्पार्थं पक्षत्रयं विधत्ते—
  • यदौदुम्बरी । ऊर्ग्वा॑ उदुम्बरः । ऊर्जैव यज्ञस्य शिरः संभ-
  • रति