सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 225, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 225

यज॑मानाः नाऽऽशिषो॑ऽवारुन्धत । न सु॑व॒र्गं लो॒कम॒भ्यज॑यन्, इति ।
( प्र ० ५ । अ ० १ । वि ० ५ )
तं स्तुतं¹ शिरोराहित्येन हिंसितं तं यज्ञपुरुषदेहमन्यादयो देवास्त्रेधा गृहीतवन्तः
तत्राग्निः प्रातःसवनं जग्राह । इन्द्रस्तु माध्यंदिनं सवनं गृहीतवान् । विश्वे देवास्-
तृतीयसवनं जगृहुः । अपशीर्ष्णा प्रवर्ग्याख्यशिरोरहितेन पूर्वोक्तसवनत्रययुक्तेन तेन
यज्ञेन यजमाना अग्न्यादयो देवा आशिषः स्वापेक्षितानि कर्मफलानि नावारुन्धत
न प्राप्तवन्तः स्वर्गलोकमपि नाभ्यजयन् ।
अथ प्रवर्ग्यसहितस्य यज्ञस्य फलहेतुत्वं दर्शयति—
ते दे॒वा अ॒श्विनाव॑ब्रुवन् ( ६) । भि॒षजौ॒ वै स्थः॑ । इ॒दं य॒ज्ञस्य॒
शिरः॒ प्रति॑धत्तमिति॑ । ताव॑ब्रूतां॒ वरं॑ वृणावहै । ग्रह ए॒व नाव॒-
त्रापि॑ गृह्यता॒मिति॑ । ताभ्या॑मे॒तमा॑श्वि॒नम॑गृह्णन् । तावे॒तद्य॒ज्ञस्य॒
शिरः॒ प्रत्य॑धत्ताम् । यत्प्र॑व॒र्ग्यः । तेन॑ स॒शी॒र्ष्णा य॒ज्ञेन॒ यज॑मानाः ।
अवाऽऽशिषो॑ऽरुन्धत । अभि सु॑व॒र्गं लो॒कम॑जयन्, इति ।
( प्र ० ५ । अ ० १ । वि ० ६ )
प्रवर्ग्यरहितेन यज्ञेन फलमलभमानास्ते देवा अश्विनौ प्रत्येवमब्रुवन् । हेऽश्विनौ
युवामस्माकं मध्ये चिकित्सकौ स्थः, तस्मादिदं यज्ञस्य शिरः प्रतिधत्तं पुनरपि यज्ञ-
शरीरे । प्रवर्त(तर्प)यतमिति । तावश्विनौ प्रत्यर्पणार्थं वरमुत्कोचरूपं लाभविशेषं
वृणावहै,² इत्युक्त्वा कोऽसौ वर इत्याशङ्क्य तं वरमुक्तवन्तौ । अत्रास्मिन्सोमयागे
नावपि चिकित्सकतयोरावयोरपि युष्मत्साम्येन ग्रह एव गृह्यताम् , न तु यत्किञ्चित्
³तुच्छं लेपादिकमिति । ततस्ताभ्यामश्विभ्यामेतमाश्विनं ग्रहमगृह्णन्, तौ चाश्विनौ
चिकित्त्सया यज्ञस्य शिरः प्रत्यर्पयता(धत्ता)म् । प्रतिधानं नाम शरीरे पुनः संधा-
नम् । प्रवर्ग्य इ(र्ये)त्येतन्नामकं यत्कर्म तदेव यज्ञशरीरे प्रतिहितं शिरः, तेन तादृ-
शेन [स]शीर्ष्णा प्रवर्ग्याख्यशिरोयुक्तेन यज्ञेन यजमाना देवाः स्वापेक्षितान्यन्यफलानि
स्वर्गं च प्राप्नुवन् ।
देवा वै सत्रमासतेत्यारभ्यैतावता महता प्रबन्धेन प्रवर्ग्याख्यं कर्म +प्रसाध्य तदेव
कर्म विधत्ते—
यत्प्र॑व॒र्ग्यं प्र॑वृ॒णक्ति॑ । य॒ज्ञस्यै॒व तच्छिरः॒ प्रति॑दधाति । तेन॑ स॒शी॒र्ष्णा
य॒ज्ञेन॒ यज॑मानः अवाऽऽशिषो॑ रुन्धे । अभि सु॑व॒र्गं लो॒कं जयति ।

  • प्रशस्येति तै० पाठ इति ग. पुस्तकटिप्पणी ।
    १ क. 'स्तु मध्यं'. २ ग. 'वास्तू°' । ३ ग. लेशादि° ।