सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 17, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 17

१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०२]
अथ ब्राह्मणमुच्यते—
नात्र॒ भुव॑नम् । न पू॒षा । न प॒शव॑ः । नाऽऽदि॒त्यः सं॑वत्स॒र
ए॒व प्र॒त्यक्षे॑ण प्रि॒यत॑मं वि॒द्यात् । ए॒तद्वै सं॑वत्स॒रस्य॑ प्रि॒यत॑मग्ं
रू॒पम् । यो॒ऽस्य॑ म॒हान॒र्थ उत्॑पत्स्य॒मानो॒ भव॑ति । इ॒दं
पु॒ण्यं कु॑रु॒ष्वेति॑ । तमा॒हर॑णं दद्यात् ( ४ ), इति ।
य॒था ल॒क्षण॒ र्ऋतुल॑क्षणं॒ भुव॑नग्ं स॒प्त च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
अस्मिन्ब्राह्मणे पारमार्थिकतत्त्वं व्यावहारिककालश्च विविच्य प्रदर्श्यते—अत्र पार-
मार्थिकतत्त्वे भुवनं भूतजातं नास्ति । तथा सति सर्वस्माद्भुवनादधीति यदुक्तं तन्नोप-
पन्नम् । न वा पूषा कश्चिद्देवोऽस्ति । तेन भद्रा ते पूषन्नित्येतदयुक्तम् । न च पशवो
१द्विपादश्च चतुष्पादो वा सन्ति । तेनोभयतः सप्तेन्द्रियाणीत्येतद३युक्तम् । नाप्यादित्यः
कश्चिदस्ति । तस्मादेतैरदित्यमण्डलमित्येतन्न युक्तम् । किं तर्हि विद्यत इति चेत्,
उच्यते—संवत्सर एव निरस्तसमस्तक्षणमुहूर्ताद्यवयवविशेषोऽखण्ड एकाकारः काल-
तत्त्वमेव विद्यते । तर्हि ४तथाविध एव नित्यो निरवयवः संवत्सर एव परमार्थभूतः
प्राणिभिरव५बुध्यतामिति चेत् । मैवम् । प्रत्यक्षेण हि लोकसिद्धेन सर्वो जन्तुः प्रियत-
ममेव रूपं विन्देन्न तु वस्तुतत्त्वम् । किं तर्हि प्रियतममिति चेत्तदुच्यते । क्षणमुहूर्तदिव-
सपक्षद्यात्मकं काल्पनिकं संवत्सरे यद्रूपमेतदेव शास्त्रदृष्टिरहितानां प्रियतमम् । अस्य
यजमानस्य योऽयमिष्टकोपधानपूर्वकः क्रतुरुत्पत्स्यमानो महानधिकोऽर्थः फलहेतु-
त्वेन पुरुषार्थो भवति तमेवाऽऽहरणमाहर्तव्यमनुष्ठेयमिष्टकोपधानपूर्वकं क्रतुं दद्याच्छि-
ष्येभ्य उपदिशेत् । उपदेशप्रकार एवेदं पुण्यं कुरुष्वेतिवाक्येन स्पष्टी(ष्टी) क्रियते ।
नात्र भुवन इ(नमि)त्यादिपरमार्थतत्त्वं नोपदिशेत् । यद्यपि तत्त्वमेवोक्तमं६ तथाऽपि विवे-
काभावान्नासावुपदेशार्ह इत्यभिप्रायः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यके प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
१ ग. द्विपादं । २ ग. °तुष्पदो । ३ क. °द्वध्यु° । ४ ख. ग. यथाविध । ५ ख. ग.
°यामि° । ६ क. ख. °र्वक्तं क्र° ।