सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 18, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 18

[प्रपा० १ अनु० ३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ११
अथ प्रथमे तृतीयोऽनुवाकः ।
कल्पः—“ साकंजानामित्येकादश पुरस्तात् ” इति । उपदधातीत्यनुवर्तते । तत्र
प्रथमामाह—
सा॒कञ्जाना॑ꣳ स॒प्तथ॑माहुरेक॒जम् । षडुद्य॑मा॒ ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः, इति ।
साकंजानां सहोत्पन्नानामादित्यरश्मीनां मध्ये सप्तमं यः स सप्तमो रश्मिः “ सूर्यो
मरीचिमादत्ते ” इति पूर्वत्रोक्तस्तं सप्तमं रश्मिमेकजमाहुरितररश्मिभ्यः पूर्वमेक एवो-
त्पन्न इत्याभिज्ञाः कथयन्ति । देवजा आदित्यदेवाद्दुत्पन्ना इतरे षड्रश्मय उद्यमाः
शिक्यस्योद्यमा इव सप्तमरश्मेरुपसर्जनभूता इत्यप्याहुः । ते च रश्मयः प्रकाशवत्त्वादृ-
षिसमाः । तेषां षण्णां रश्मीनामिष्टान्यभिप्रेतानि धामशः स्थानानि विहितानि
प्रजापतिना निर्मितानि। ते च रश्मय ऋत्वात्मका अत एकस्य वसन्तत्वेन प्राथम्यमन्यस्य
तदनन्तरभावित्वं ततोऽप्यूर्ध्वभावित्वमन्यस्येत्येवं स्थानविकल्पितानि स्थात्रे जगतः
स्थित्यर्थं विकृतानि शीतोष्णादिरूपेण विलक्षणानि रूपशः स्वरूपाणि रेजन्ते कम्पन्ते
प्रवर्तन्त इत्यर्थः ।
अथ द्वितीयामाह—
को नु॑ मर्या॒ अम॑िथितः । सखा॒ सखा॑य-
मब्रवीत् । जहा॑को अ॒स्मदी॑षते, इति ।
हे मर्या मरणशीला मनुष्या इदमेकं वचनं ब्रूतेति शेषः । को नु युष्माकं मध्ये
कः खल्वमिथित इतरेणाबाधितः सखा तमबाधकं सखायमब्रवीत् । किमब्रवीदिति
तदुच्यते—जहाको हानशीलोऽयमतोऽस्मत्सकाशादीषते भीतः पलायत इति ।
अयमर्थः । द्वयोः सख्योः परस्परविरोधे सत्येकेन बाधित इतरः स्वयमपि तं बाधं
बाधितुमिच्छन्निदं ब्रूतेऽयं परित्यागशीलो मत्तः पलायत इति । न त्वेतद्वचनं सख्यो-
र्युक्तं ततो मनुष्या भवतां मध्ये सखा खलु सखायमन्यमेवं ब्रूते न कश्चिदप्येवं वक्तीति।
अथ तृतीयामाह—
यस्ति॒त्याज॑ सखिवि॒दꣳ सखा॑यम् । न तस्य॑ वा॒च्यपि॑
१ ग. ॰थममा । २ क. रा. ॰त्रोक्तः स॰ । ३ ख. ॰कमेवोत्तरमित्य॰ । ग. कमेवोत्तरं न
इ॰ । ४ ग. ॰तीयमा॰ । ५ ख. ग सतीत्ये॰ । ६ ग. ॰तीयमा॰ ।