तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 15, कुल 914 में से
संदर्भ में पढ़ें८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १ अनु० २]
अथ षष्ठीमाह—
अणु॑भि॒श्च म॒हद्भि॑श्च । स॒मा॒रूढः॑ प्र॒दृश्य॑ते ।
सं॒व॒त्स॒रः प्र॑त्य॒क्षेण॑ । नाधि॑सत्त्वः प्र॒दृश्य॑ते, इति ।
अणुभिश्च स्वल्पैः क्षणमुहूर्तादिभिरपि महद्भिश्च दिवसपक्षादिभिरप्यवयवैः समा-
रूढः सम्यक्प्राप्तः संवत्सरः प्रत्यक्षेण प्रदृश्यते । आविपालगोपालं हि सार्वजनीने-
नानुभवेन व्यवह्रियमाणत्वात् । अधिसत्त्वः सत्त्वात्सर्वप्राणिनामस्तित्वेन प्रतीयमाना-
त्संवत्सररूपात्कालादधिको नित्यो निरवयवः परमात्मरूपो व्यावहारिककालस्याप्युत्पा-
दकः कालात्माऽधिसत्त्वः । योऽयं शास्त्रदृष्टिमन्तरेण न प्रदृश्यते ।
अथ सप्तमीमाह—
पट॑रो वि॒क्लिधः॑ पि॒ङ्गः । ए॒तद्वरु॑णल॒क्षण॑म् ।
यत्रैतं॑दुप॒दृश्य॑ते । सहस्रं॒ तत्र॑ नीयते, इति ।
योऽयमधिसत्त्वनामको व्यावहारिककालस्याप्युत्पादकः परमात्मरूपश्चैतन्यात्मकः
कालोऽस्ति “ज्ञः कालकालः” इति श्रुत्यन्तरगात् । तस्य कालस्य शास्त्रदृष्टिंवर्जितैर-
दर्शने कारणमुच्यते । पटो वस्त्रसदृशश्चर्मविशेषोऽस्यास्तीति पटरः । विक्लेिधो विवि-
धक्लेदनयुक्तः । पिङ्गः पिङ्गलवर्णः । एतच्छुक्लकृष्णादेरुपलक्षणम् । एतैः सर्वैर्विशेषणै-
र्मांसमयोऽक्षिगोलकविशेषो विभज्यते । अस्ति हि तस्य पक्ष्मा(क्ष्म)पटलाख्यश्चर्मखण्डः
पटसदृशः । विक्लेदनमप्यस्ति यदा तदा चक्षुषि जलस्रवणात् । पिङ्गलः शुक्लादिवर्णः
स्पष्ट एव । एतादृशं यदक्षिगोलकमेतदेव वरुणस्य पारमार्थिककालतत्त्वावरकस्य
लक्षणं स्वरूपं वरुणलक्षणं, मांसदृष्टिरेव तत्त्वविषयां शास्त्रदृष्टिमावृणोतीत्यर्थः ।
यत्र यस्यां मांसदृष्टावेतज्जगत्प्रतीयते तत्र क्षणो मुहूर्तो दिवस इत्यादिरूपभेदेन काल-
भेदानां सहस्रं नीयते । व्यवह्रियतेऽवगम्यत इत्यर्थः ।
अथाष्टमीमाह—
एक॑ꣳ हि शिरो नाना॒ मुखे॑ । कृ॒त्स्नं त॑दृतु॒लक्ष॑णम् (३) ।
उ॒भय॑तः स॒प्तैन्द्रि॑याणि । ज॒ल्पितं॑ त्वेव दी॒ह्य॑ते, इति ।
एकमेवास्य व्यावहारिककालस्य शिरः संवत्सर एव शिरोवदुत्तमावयवस्थानीयः ।
मुखे तु नाना मुखस्थानीये दक्षिणोत्तरायणे द्विविधे । यच्छिरःस्थानीयस्य संवत्सर-
१ घ. पठारो । २ ग. यः । ३ क. ॰दृशः पक्ष्मविं । ४ ख. ग. ॰योऽस्तिधोगो॑ । ५ ख.
॰लश्रव॑ ।