तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 119, कुल 914 में से
संदर्भ में पढ़ेंततोऽग्नये स्वाहा वायवे स्वाहेत्यादयो मन्त्राः संपद्यन्ते । आदिश्यते विधीयत इत्या-
देशोऽनुष्ठेयोऽर्थः, स च प्रवर्ग्यवदत्रावगन्तव्यः, प्रवर्ग्याध्ययनादौ ये धर्मास्तेऽत्राप्यनु-
ष्ठेयाः । ते च प्रवर्ग्यधर्मा आपस्तम्बेन सूत्रिताः—“ संवत्सरमेतद्व्रतं चरेदेतस्मिन्संव-
त्सरेऽधीयीत यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्संवत्सरेऽखिले
छदिर्दर्शोऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य ” इत्यादयः । ताने-
तान्धर्मान्याचरेत् । अरुणारुया [ ये ] अत्र काण्ड ऋषयस्तेऽपि होतव्या इत्यर्थः ।
अथाऽऽरुणकेतुकचयनप्रतिपादकस्य ग्रन्थस्याध्ययने नियमान्विधत्ते—
अ॒रण्ये॑ऽधीयीरन्॑ । भ॒द्रं कर्णे॑भिरिति द्वे॑ ज॑पित्वा ( २ ) । महा-
नाम्नीभिरुदकँꣳ सं॑स्पृश्य॑ । तमाचार्यो द॑द्यात् । शि॒वा नः॑
शंत॑मेत्योषधींरालभते । सुमृडीकेति॒ भूमि॑म् । ए॒वम॑पवर्गे । धेनु॒र्द-
क्षिणा । कꣳसं वास॑श्च क्षौम॑म् । अन्य॑द्वा शु॒क्लम् । य॑थाश॒क्ति
वा । एवꣳ स्वाध्याय॑धर्मेण । अरण्ये॑ऽधी॒यीत । तप॑स्वी
पु॒ण्यो भ॑वति तप॑स्वी पु॑ण्यो भ॑वति ( ३ ), इति ॥
कु॒र्वीत॒ ज॑पित्वा॒ स्वाध्या॒यध॑र्मेण॒ द्वे च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
सोऽयं ग्रन्थोऽरण्य एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्यर्थं भद्रं
कर्णेभिरिति द्वे ऋचौ जपेत् । आपमापामित्येताभिर्महामान्नीभिर्ऋग्भिरध्येतारं माण-
वकमुदकं स्पर्शयेत् । ततस्तं माणवकमाचार्यो दद्यात्, व्रताय नियुञ्जीत । शिवा न
इति मन्त्रेणौषधीः स्पृशेत् । सुमृडीका सरस्वतीति मन्त्रेण भूमिं स्पृशेत् । यथाऽध्य-
यनस्योपक्रमे सर्वमेतदनुष्ठितमेवमध्ययनावसानेऽपि सर्वमेतदनुतिष्ठेत् । कृत्स्नाध्ययनस्य
समाप्तावाचार्याय धेनुर्दक्षिणा देया, भोजनार्थं कांस्यपात्रं देयम्, प्रावरणार्थं क्षौमं
वस्त्रं देयम्, तदशक्तावन्यत्कार्पासमयं शुक्लं वस्त्रं देयम्, अत्यन्तमशक्तेन यथाशक्ति
किमपि देयम्, एवमेवमुक्तेनाध्ययनधर्मेण युक्तः सन्नरण्ये गुरुमुखाद्ग्रन्थमधीयीत ।
एवमधीयानो व्रतनियमानुष्ठानात्तपोयुक्तो भवति । अभ्यासोऽयं मङ्गलार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये प्रथमप्रपाठके द्वात्रिंशोऽनुवाकः ॥ ३२ ॥
१ ख. ग. ॰रे पर्यवेते छादिर्दर्शोऽग्निं । २ ख ग ॰र्मान्वा च॰ । ३ ख. ग. ॰पाण्डित्यस्य ।