तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 112, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०१अनु०२९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १०९
अथ तृतीयामाह—
यो गर्भ॒मोष॑धीनाम् । गवां॑ कृ॒णोत्यर्व॑ताम् ।
प॒र्जन्यः॒ पुरु॑षीणाम् (१) , इति ॥
*विशी॑र्णी पर्जन्या॑य दश॑ दश ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक
एकोनत्रिंशोऽनुवाकः ॥ २९ ॥
यः पर्जन्यो देवो व्रीहियवाद्योषधीनां गवामश्वानां मनुष्यस्त्रीणां च गर्भं
कृणोति करोति । नोऽस्माकं मयोभूरिति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये प्रथमप्रपाठक एकोनत्रिंशोऽनुवाकः ॥ २९ ॥
अथ प्रथमे त्रिंशोऽनुवाकः ।
कल्पः—"पुनर्मा मैत्विति च" इति । तत्र प्रथमामाह—
पुन॒र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒-
र्ब्राह्म॑णमैतु मा । पुन॒र्द्रवि॑णमैतु मा, इति ।
यदिन्द्रियं भोगेन नष्टं तत्पुनरपि मां प्रत्यैत्वागच्छतु । आयुरपि पुनरेतु ।
ब्रह्मण इदं ब्राह्मणं ब्रह्मवर्चसं तदपि पुनर्मामैतु । द्रविणं धनमपि पुनर्मामैतु । एत-
त्सर्वं मम पुनर्वर्धतामित्यर्थः ।
अथ द्वितीयामाह---
यन्मे॒ऽद्य रेतः॑ पृथि॒वीमस्का॑न् । यदोष॑धी॒रप्यस॑र॒द्य-
दापः॑ । इदं तत्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से, इति ।
अथा (द्या?)स्मिन्दिने मे मदीयं यद्रेतः पृथिवीं प्रत्यस्कान्प्रमादेन स्कन्नमासीत् ।
ओषधीरपि मदीयं यद्रेतोऽसरत्प्राप्नोत्, ओषधीषु स्कन्नमित्यर्थः । यच्च
रेत आपोऽसरदप्सु स्कन्नं, तदिदं रेतः पुनरप्यहमाददे । किमर्थम्, दीर्घायुत्वाय
वर्चसे, आयुर्वृद्धये ब्रह्मवर्चसाय च ।
- ग. पुस्तके पर्जन्याय दशेत्येतावन्मात्रमेव वर्तते ।
१ ग. °युस्त्वयः । २ ख. यन्न । ग. अत्र । ३ ग. °युत्वाय ।