तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 109, कुल 914 में से
संदर्भ में पढ़ें१०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १ अनु० २७]
रेतःपीताः पीतरेतस्काः पुरुषाः, आण्डपीता अण्डस्पृष्टोदकपायिनः, एवमाद्यभ-
क्ष्यभक्षणाः सर्वेऽपीतोऽपगच्छन्तु । तथाऽङ्गारेषु ये पश्चादयोऽशाखीयमार्गेण हुताः
पिपीलिकादयो वा पिशाचादिभावेन जगति वर्तन्ते [ते] सर्वेऽप्यस्मात्स्थानादपगच्छन्तु ।
तथा पुत्रपौत्रकाञ्श्रुतवृत्तहीनान्कुत्सितान्पुत्रान्पौत्रांश्चोभयानहं युवेऽस्मात्स्थानात्पृथ-
करोमि । तथा यमराजगान्यमेन पातयितुं योग्यान्सर्वानप्यपनयामि ।
अथ पञ्चदश्याः प्रतीकं दर्शयति—
श॒तमिन्नु श॒रद॑:, इति ।
इयं च शाखान्तरीया वैश्वदेवकाण्डे योगे योग इत्यनुवाके समाम्नाता । तत्पाठस्तु
“शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो
भवन्ति मा नो मध्या रीरिषताऽऽयुर्गन्तोः” इति । हे देवाः शतमिन्नु शतमपि शरदः
संवत्सरा अन्ति अस्माकमन्तिकस्था एव । स्वल्पा एव शतायुः पुरुष इति श्रुत्या शतं
शरद आधिक्येन तत्र तत्र प्रशस्यन्ते, अस्माकं तु न पर्याप्ताः । तत्र हेतुरुच्यते—
यत्रैषु शतसंवत्सरेषु नोऽस्मदीयानां तनूनां जरसं शरीराणां वयोहानिलक्षणं शैथिल्यं
चक्रा हे देवा यूयं कृतवन्तः । किंच यत्र यस्यां जरायां पुत्रासः पुत्राः स्वकीयो-
दरजाताः स्वेन रक्षिता एव पितरो भवन्ति प्रत्युत पालका भवन्ति । तादृशमायुः
कथं पर्याप्तं भवेत् । आस्तां तावदायुषः पर्याप्तिः । हे देवा यूयमायुर्गन्तोस्तादृशम-
प्यायुः सर्वं प्राप्तुमिच्छा विद्यते तस्मान्मध्या तस्याऽऽयुषो मध्ये नोऽस्मान्मा रीरि-
षत हिंसितान्मा कुरुत । इति शाखान्तरीयमन्त्रस्यार्थः ।
अथ षोडशीमाह—
अ॒दो यद्ब्रह्म॑ वि॒लब॑म् । पि॒तॄणां च॑ य॒मस्य॑ च ।
वरु॑णस्या॒श्विनो॑र॒ग्नेः । म॒रुतां॑ च वि॒हाय॑साम्, इति ।
पूर्वोक्तं जगत्कारणमस्ति, अदो ब्रह्म पित्रादीनां सर्वेषां विलबं विशेषेणाऽऽलम्ब-
नम् । विहायसामित्यनेनाऽऽकाशवर्तिनो यक्षगन्धर्वाद्य उच्यन्ते ।
अथ सप्तदशीमाह—
का॒म॒प्रयव॑णं मे अस्तु । स ह्ये॑वास्मि॑ सना॒तन॑: ।
इति नाको भ्राजि॒श्वथो॑ रा॒यो धन॑म् । पु॒त्रानापो दे॒वीरि॒हाऽऽहि॑ता(६), इति ॥
१ क. ॰हीनान्कुत्सि॰ । २ ख. ग. प्रश॑स्यन्ते । ३ ग. ॰ते यस्य तं ।