तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 103, कुल 914 में से
संदर्भ में पढ़ें१०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १अनु० २६]
अथाऽऽरुणकेतुकाग्निचितो नियमविशेषं विधत्ते—
तस्यै॒तद्व्र॒तम् । वर्ष॑ति॒ न धा॑वेत् (६)। अ॒मृतं॑
वा आप॑: । अ॒मृत॒स्याऽन॑न्तरित्यै, इति ।
पर्जन्ये वर्षति सति यदा मार्गे गच्छति तदा क्लेदनभीत्या धावनं न कुर्यात् । तत्र
करणे चामृतरूपाणामपां परित्यागेन स्वर्गसुखरूपममृतमन्तरितं भवेत्, तन्मा भूदिति
न धावेत् ।
नियमान्तराणि विधत्ते --
नाप्सु मूत्रं॑ पु॒रीषं॑ कुर्यात् । न निष्ठी॑वेत् । न वि॒वस॑नः स्नायात् ।
गुह्यो॒ वा ए॒षोऽग्निः॑ । ए॒तस्या॒ग्नेरन॑तिदाहाय, इति ।
एष आरुणकेतुकोऽग्निरिष्टकाभिर्निष्पाद्यत्वादप्सु गूढो वर्तते । तादृशो मूत्रादि-
कारणमतिशयेन दहति । स दाहो मा भूदिति मूत्रादिकं न कुर्यात् । पुरुषार्थत्वेन
शास्त्रेषु निषिद्धस्याप्यत्र पुनर्निषेधः श्रौतप्रायश्चित्तार्थः ।
नियमान्तरं विधत्ते—
न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं वाऽधिति॒-
ष्ठेत् । ए॒तस्या॒ग्नेरन॑भ्यारोहाय, इति ।
पुष्करपर्णस्य हिरण्यस्य वा पादेनाऽऽक्रमणे सति तमग्निमारूढवान्भवेत् । अतस्त-
दुभयं नाधितिष्ठेत् ।
नियमान्तरं विधत्ते—
न कूर्म्म॒स्याश्नी॑यात् । नोद॒कस्या॒घातु॑कान्ये॒न-
मोद॒कानि॑ भवन्ति । अघा॒तुका॒ आप॑: । य ए॒त-
म॒ग्निं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ (७), इति ।
चि॒नु॒ते चि॑नु॒ते प्र॒जाका॑मश्चिन्वीत॒ य ए॒वं वेदाऽऽपो॑
धावे॑द॒श्नीयाच्च॒त्वारि॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
षड्विंशोऽनुवाकः ॥ २६ ॥
१ ख. ॰चितो नि॰ । २ ग. ॰त्तार्थम् । नि॰ ।