तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 485, कुल 940 में से
संदर्भ में पढ़ें४८० तैत्तिरीयारण्यके
अह॑र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वां॒ द्यावा॑पृथि॒वी
म॑ꣳसातां । स्वाहेन्द्रा॑य^{(५)}। ^{(६)}स्वाहेन्द्रावट्^{(६)}। ^{(७)}घ॒र्म्मं मे॑-
पाठस्तु । ^{(५)}“अश्विना घर्म्मं पातꣳ हार्द्दिवानं ॰ स्वाहे-
न्द्राय”^{(५)} इति । हे अश्विनौ, ‘घर्म्मं’ प्रवर्ग्र्यं हविः, ‘पातं’
पिवतं । कीदृशं ‘हार्द्दिवानं’ हृदयप्रियातिशयो हार्द्दो
मोऽस्यास्तीति हार्द्दिवा तादृशं, ‘अहः’ अह्नि अस्मिन् दिने,
‘दिवाभिः’ द्योतमानाभिः, ‘ऊतिभिः’ अन्नादिषयलक्षण-
क्रियाभिः निमित्तभूताभिः, ‘पातं’ इति पूर्व्वत्रान्वयः । हे
अश्विनौ, ‘वां’ युवां, द्यावापृथिव्यौ देवते, ‘अनु’ ‘मꣳसातां’
अनुमतौ कुरुतां । ‘इन्द्राय’ इदं स्वाहुतमस्तु ॥
कल्पः । स्वाहेन्द्राय*वदित्यनुवषट्कृता† इति । (६ मन्त्रः) ।
जुहोतीत्यनुवर्त्तते । ‘इन्द्रः’ इत्ययं शब्दः परमैश्वर्य्ययोगात्
स्विष्टकृदग्निमाचष्टे । ‘स्वाहा’शब्द आहुतियोग्यतामाह । ता-
दृशाय वषट् इदं हविः समर्पितं ॥
अश्विना घर्म्मं पातमित्युक्त्या तयोर्भागसमृद्धिं दर्शयति ।
“अश्विना घर्म्मं पातꣳ हार्द्दिवानमहर्द्दिवाभिरूतिभिरित्याह ।
अश्विनावेव भागधेयेन समर्द्धयति” इति । (५ प्र० । ८ अनु० । ५-
म०) ॥
* स्वाहेन्द्रावट् H पु० पाठः ।
† वषट्कारः तै० पु० पाठः ।