सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 484, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 484

४ प्रपाठके ६ अनुवाकः । ४७६

मधो॑: पिवतमश्विना । स्वाहा॒ग्नये॑ य॒ज्ञिया॑य । शं यजु॑-
र्भि:^(४) । ^(५)अ॒श्विना॑ घ॒र्मं पा॑तंꣵ हार्द्विवानं॑ ॥ २ ॥

अयाट्शब्देन सर्व्वदेवानां भागसमृद्धिं दर्शयति । “वि-
श्वान् देवानयाडिहेत्याह । विश्वानेव देवान् भागधेयेन
समर्द्धयति” इति । (५ प्र० । ८ अ० । २ म०) ॥

कल्पः । स्वाहाकृतस्य घर्मस्येति घर्म*मभिमन्त्र्येति । पा-
ठस्तु । ^(४)“स्वाहाकृतस्य घर्मस्यं ० शं यजुर्भिः”^(४) इति ।
‘अश्विना’ हे अश्विनौ, ‘स्वाहाकृतस्य’ स्वाहाकारेण समर्पितस्य,
‘मधोः’ मधुरस्य, ‘घर्मस्य’ प्रवर्ग्र्यद्रव्यस्य, रसं ‘पिवतं’, ‘यजु-
र्भिः’ यजुर्देवताभिः, सहिताय ‘यज्ञियाय’ यज्ञयोग्याय,
‘अग्नये’ ‘शं’ सुखं यथा भवति तथा स्वाङ्कृतमस्तु ॥

मन्त्रस्य पूर्व्वभागेनाश्विनोर्भागसमृद्धिं दर्शयति । “स्वाहा
कृतस्य घर्मस्य मधोः पिवतमश्विनेत्याह । अश्विनोवेव भाग-
धेयेन समर्द्धयति” इति । (५ प्र० । ८ अ० । ३ म०) ॥

उत्तरभागे स्वाहेत्युच्चारणेन प्रवर्ग्र्येऽभिघारणं हविष्ठञ्च
सम्पद्यत इति दर्शयति । “स्वाहाग्नये यज्ञियाय शं यजुर्भि-
रित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः” ॥१॥ इति ।
(५ प्र० । ८ अ० । ४ म०) ॥

कल्पः । अश्विना घर्मं पातमिति वषट्कृते जुहोतीति ।


* दुघ इति D चिह्नितपु० पाठः
30