तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 383, कुल 940 में से
संदर्भ में पढ़ें३७८ तैत्तिरीये आरण्यके
देवा वै सत्रमासतेत्यारभ्यैतावता महता प्रबन्धेन प्रव-
र्ग्याख्यं कर्म प्रसाध्य* तदेव कर्म विधत्ते । “यत् प्रवर्ग्यः ।
तेन स शीर्ष्णा यज्ञेन यजमानः । अवाशिषो रुन्धत । अभि
सुवर्गं लोकमभजयन् ॥ यत् प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव
तच्छिरः प्रतिदधाति । तेन स शीर्ष्णा यज्ञेन यजमानः ।
अवाशिषो रुन्धे । अभि सुवर्गं लोकं जयति । तस्मादेष आ-
श्विनप्रवया इव । यत् प्रवर्ग्यः ॥ ७ ॥” (५ प्र० । १ अ० । ७ म० )
इति । यदि प्रवर्ग्याख्यं कर्मानुतिष्ठेत् । तत्तर्हि यज्ञस्य शिर एव
प्रतिसमाहितवान् भवति । ततः ‘सशीर्ष्णा’ शिरःसहितेन,
‘यज्ञेन’, ‘यजमानः’ पुमान्, आशामनीयानि अन्यान्यफलानि†
प्राप्नोति स्वर्गं वाभिजयति । यस्मादश्विभ्यां समाधानं कृतं
‘तस्मात्’ कारणात्, यः प्रवर्ग्याख्यः कर्मविशेषोऽस्ति, स ‘एषः’,
आश्विनप्रवया इति आश्विनमन्त्राः प्रवचसः प्रवृद्धा अस्मिन्
प्रवर्गे सोऽयं ‘आश्विनप्रवयाः’ । ‘इव’शब्द एवकारार्थः ॥
एतदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रवर्ग्याख्यं
कर्म विधाय द्वितीयानुवाकादौ युञ्जते मन इत्येतन्मन्त्र-
साध्यं होमं विधत्ते । “सावित्रं जुहोति प्रसृत्यै । चतुर्गृही-
तेन जुहोति । चतुष्पादः पशवः । पशूनेवावरुन्धे । चतस्रो
दिशः दिक्ष्वेव प्रतितिष्ठति” । (५ प्र० । २ अ० । १ म०) इति । मन्त्रे
देवस्य त्वा सवितुः परिष्टुतिरित्युक्तत्वान्मन्त्रः ‘सावित्रः,’तद्धोमः
* प्रशंस्थेति तै० पाठः ।
† यानि फलानि तानि इति तै० पाठः ।