सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 382, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 382

४ प्रपाठके २ अनुवाकः। ३७७

तानि कर्मफलानि, 'अवारुन्धत' 'न', प्राप्तवन्तः, 'स्वर्गलोकं',
अपि 'नाभ्यजयन्' ॥

अथ प्रवर्ग्यरहितस्य यज्ञस्य फलहेतुत्वं दर्शयति । “ते
देवा अश्विनारब्रुवन् ॥ ६ ॥ भिषजौ वै स्थः । इदं यज्ञस्य
शिरः प्रतिधत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव
नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेत-
द्यज्ञस्य शिरः प्रत्यधत्तां”। (५ प्र० । १ अ० । ६ म०) इति । प्रवर्ग्य-
रहितेन यज्ञेन फलमलभमानाः 'ते देवाः', 'अश्विनौ', प्रत्येतत्
'अब्रुवन्', हे अश्विनौ युवामस्माकं मध्ये चिकित्सको 'स्थः',
तस्मात् 'इदं यज्ञस्य शिरः', 'प्रतिधत्तं' पुनरपि यज्ञशरीरे
प्रवर्त्तयतं,* 'इति', 'तौ' अश्विनौ, प्रत्यर्पणार्थं 'वरं' उत्कोच-
रूपं लाभविशेषं, 'वृणावहै'। इत्युक्ता कोऽसौ वर इत्याशङ्क्य
तं वरमुक्तवन्तौ । 'अत्र' अस्मिन् सोमयागे, 'नावपि' कित्स-
कयोरावयोरपि, युष्मत्साम्येन 'ग्रह एव', 'गृह्यतां', न तु
यत्किञ्चित्तुच्छं लेशादिकं,† 'इति' । ततः 'ताभ्यां' अश्विभ्यां,
'एतं' आश्विनं ग्रहं, 'अगृह्णन्', 'तौ' चाश्विनौ, चिकित्सया
'यज्ञस्य शिरः', प्रत्यर्पयतां‡ । प्रतिधानं नाम शरीरे पुनः
सन्धानं । प्रवर्ग्य इत्येतन्नामकं यत् कर्म तदेव यज्ञशरीरे प्रति-
ष्ठितं शिरः । तेन तादृशेन शीर्ष्णा प्रवर्ग्याख्यशिरोयुक्तेन यज्ञेन
यजमाना देवाः स्वापेक्षितान्यन्यफलानि स्वर्गञ्च प्राप्नुवन् ॥


* प्रत्यर्पयतमिति तै० पाठः ।
† तल्लेषादिकमिति तै० पाठः ।
‡ प्रत्यधत्तामिति तै० पाठः।

3 A 2