तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 379, कुल 940 में से
संदर्भ में पढ़ें३७४ तैत्तिरीये आरण्यके
क्रामत्' गर्वेण प्रयत्ने शिथिले सति सामर्थ्यमपगतं । पुनरपि
कथञ्चित् तत् स्वीकरिष्यतीति मत्वा ते 'देवाः', 'तत्' तेजः,
अन्यत्र नीत्वा तेन यथा न ज्ञायते तथा गूढं कर्त्तुं कासु-
चित् 'ओषधीषु', निमृष्टवन्तः । 'ते' चैाषधिविशेषाः यज्ञ-
सम्बन्धिना तेजसा युक्ताः, 'श्यामाकाभिधाः' धान्यविशेषाः,
'स्याकाः', इत्येतादृशं 'नाम', अर्हन्ति । यस्मादेतस्य नाम्ना
योग्याः 'तस्मात्', 'स्याकानां' स्यायादुत्पन्नानां धान्यानां
'स्याकत्वं' स्याकनामाभिज्ञव्यवहारेण प्रसिद्धं, यस्मादत्र
स्मयं कुर्व्वतो यज्ञपुरुषात् तेजोपक्रान्तं 'तस्मात्' कारणात्,
'तेजसः', स्वस्मिन्नेवावधारणार्थं मुखमपिधाय दीक्षितेन
'स्मेतव्यं' । यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डूयतेऽपि
'गृह्य', स्मयत इति विधिरस्ति तथापि प्रसङ्गादत्र स एवा-
नूद्यत इत्यवगन्तव्यम् ॥
अथ प्रवर्ग्यघर्ममहावीरसम्राट्शब्दानां निर्वचनानि प्रस्तो-
ष्यमाणहविःप्रशंसार्थं दर्शयति । "स धनुः प्रतिष्कभ्यातिष्ठत् ।
ता उपदीका अब्रुवन् वरं वृणामहै। अथ व इमँ् रन्धया-
म । यत्र क च खनाम । तदपोऽभितृन्दामेति । तस्मादुप-
दीका यत्र क च खनन्ति । तदपोऽभितृन्दन्ति ॥ ४ ॥ वारे
वृतँ् ह्यासां । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ् शिर
उदवर्त्तयत् । तद् द्यावापृथिवी अनुप्रावर्त्तत । यत् प्रावर्त्तत ।
तत् प्रवर्ग्यस्य प्रवर्ग्यत्वं । यह्रां इत्यपतत् । तद्धर्मस्य घर्मत्वं ।
महतो वीर्यमपप्रदिति । तन्महावीरस्य महावीरत्वं ॥ ५ ॥