तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 378, कुल 940 में से
संदर्भ में पढ़ें४ प्रपाठके २ अनुवाकः। ३७३
च्छन्। तदैवैः 'अन्वागतस्य', विष्णोः सव्यहस्तादेकं 'धनुः'
उत्पन्नं, दक्षिणहस्ताद् बहवो बाणा उत्पन्नाः, विष्णोः सङ्क-
ल्पमात्रेण तदुत्पत्तिः। यस्मात् कारणात् 'यज्ञजन्मा' य-
ज्ञाज्जन्म उत्पत्तिर्यस्येषुधन्वसमूहस्य सोऽयं यज्ञजन्मा। यज्ञो
वै विष्णुरिति श्रुतेः, यज्ञस्यैव विष्णुरूपत्वात् विष्णोरुत्पन्न-
द्यज्ञादेवोत्पन्नं भवति। 'तस्मात्' यज्ञजन्मत्वात्, 'इषुधन्व'स्व-
रूपं 'पुण्यजन्मा', इत्युच्यते यज्ञस्य पुण्यरूपत्वात्। वामहस्ते दध-
द्धनुर्दक्षिणहस्ते बाणान् धृत्वावस्थितं 'तं' यज्ञपुरुषं, 'एकं',
एव 'सन्तं', इतरे इषुधन्वरहिता देवाः'बहवः', सन्तोऽपि 'ना-
भ्यधृष्णुवन्' अभिभवितुन्नाशक्नुवन्, यस्मादेवमत्र 'तस्मात्',
लोकेपीषुभिर्धनुषा चोपेतं 'एकं' पुरुषं, तद्रहिताः 'बहवः'
पुरुषाः, अभिभवितुं न शक्नुवन्ति ॥
अथ यज्ञपुरुषस्य गर्वप्रभङ्गेन दीक्षितनियमं विधत्ते ।
“सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य
स्मियमाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते
श्यामाका अभवन् । स्मायाका वै नामैते ॥ ३ ॥ तत् स्मायाका-
नां स्मायाकत्वं । तस्माद्दीक्षितेनापि गृह्य स्रोतव्यं । तेजसो
धृत्यै” (५ प्र० । १ अ० । ३ म०) इति । 'सः' धन्वी यज्ञपुरुषः,
'अस्मयत' स्वयं हास्यं कृतवान् । हास्याभिप्रायश्च तेनैवोच्यते ।
अहमेक एव एते तु देवाः शतसहस्रशङ्ख्याकाः तथापि मा-
मभिभवितुं न शक्ताः, 'इति' एवं, 'स्मियमाणस्य' गर्वेण
स्मयं कृतवतः, 'तस्य' यज्ञपुरुषस्य सकाशात्, तदीयं 'तेजोपा-