तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 265, कुल 940 में से
संदर्भ में पढ़ें२६० तैत्तिरीये आरण्यके
भागो॒ अस्ति॑ । यदीं॑ शृ॒णोत्यलकं॑ शृणोति॒ नहि
त्तमगतिप्रदानेन* प्रियं ‘सखायं’, इवातिस्नेहेन पाल-
यति, तस्मादध्येतारं सखायं वेत्तीति ‘सखिवित्’ स्वाध्यायः,
स्वयञ्च ‘तस्य’ पुरुषस्य, सखा अत्यन्तस्नेहेन कदाचिदप्यनपा-
यात्। नहि निरन्तराध्यायिनं स्वाध्यायः कदाचिदपि परि-
त्यजति, किन्तु दिने दिनेऽतिशयेन तस्याधीनो भवति†।
तादृशं ‘सखिविदं’, अपि ‘सखायं’, ‘यस्तित्याज’ परित्यक्तवान्,
‘तस्य’ परित्यक्तुः, ‘वाच्यपि’, ‘भागो नास्ति’ आयासरहिते
महाफले पाठेऽपि भाग्यं नास्ति, किमु वक्तव्यं महाप्रयाससा-
ध्येऽनुष्ठाने‡ तत्फले वा। ‘यदीं’ यद्यपि, स्वाध्यायत्यागी कदा-
चिद्विद्वत्सभायामुपविश्य बहूनि शास्त्राणि ‘शृणोति’, तदानीं
‘अलकं’ अलीकमनृतमेव, ‘शृणोति’, पुरुषार्थपर्यवसानाभा-
वात्। नहि काव्यनाटकालङ्कारादिश्रवणेन वृथायुःक्षयम-
न्तरेण कञ्चित् पुरुषार्थं पश्यामः। अत एव वाजसनेयिनः
समामनन्ति। नानुध्यायाद्बहूञ्छब्दान् वाचो विम्लापनं हि
तदिति। वेदव्यतिरिक्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसा-
यित्वमेव§ उपपाद्यते। यस्मादयं वेदत्यागी ‘सुकृतस्य पन्थां’ पु-
ण्यानुष्ठानमार्गं, न जानाति तस्मात् कण्ठशोषमात्रपर्यवसानं।
* मोक्षपर्यन्तोत्तरोत्तरगतिप्रदानेनेति तै० पाठः!
† दिने दिने व्यतिशयो भवति इति तै० पाठः।
‡ महाप्रयाससाध्ये स्वर्गे इति तै० पाठः।
§ कण्ठशोषमात्रपर्यवसानत्वमेव इति तै० पाठः।