सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 264, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 264

२ प्रपाठके १५ अनुवाकः। २५६

ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भिश्छन्द॑सः॒ स्वाध्या॑येना-
प॑हतपाप्मा स्वाध्या॒यो दे॑वप॒वित्रं॒ वा ए॒तत् तं योऽनूत्-
सृ॒जत्यभा॑गो वा॒चि भ॑वत्यभा॒गो नाके॒ तदे॒षाभ्यु॑क्ता^(५)।
^(६)यस्तित्या॑ज सखिवि॒द॒ᳵ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑

मोष्टे* यस्मात् 'एतत्' स्वाध्यायस्वरूपं, देवानामपि शोधकं।
देवा हि पूर्वस्मिन् जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तद-
र्थञ्चानुष्ठाय शुद्धाः सन्तो देवत्वं प्राप्ताः। 'तं' ईदृशं स्वाध्यायं,
'योऽनुत्सृजति' यः पुरुषः प्रारभ्य पश्चात् त्यजति, स पुमान्
'अभागो वाचि भवति' वाङ्मात्रनिष्पाद्यत्वेनाप्रयाससिद्धं स्वा-
ध्यायाध्ययनं तथाविधायां प्रयासरहितायां महाफलहेतुभू-
तायां वाच्यपि भाग्यं तस्य परित्यक्तुर्नास्ति, महाप्रयासनि-
ष्पाद्ये ज्योतिष्टोमादिसाध्ये स्वर्गे भागं नास्तीति किमु वक्तव्यं।
यो हि पाणिलब्धञ्चिन्तामणिमग्निमध्ये प्रक्षिपति स भाग्यहीन
इत्यस्मिन्नर्थे न कोपि विप्रतिपद्यते। 'तत्' तस्मिन्, चिन्ताम-
णिपरित्यागसदृशोऽयं स्वाध्यायपरित्याग इत्यस्मिन्नर्थे, काचि-
दृक् 'अभ्युक्ता'॥

तामेतामृचं दर्शयति। ^(१)“यस्तित्याज ० पन्थामि-
ति”^(१) इति। 'यः' पुमान्, वेदस्य वाङ्मात्रनिष्पाद्यमध्ययनं
करोति तं पुमांसं वेदः समस्तपापक्षयद्वारेण मोक्षपर्यन्तो-

* द्रष्टुमोष्ट इति तै० पाठः।

212