सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 168, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 168

१ प्रपाठके २६ अनुवाकः । १६३

न्वीत॑ । स॒ञ्ज्ञानं॒ वा ए॒तत् प॑शू॒नां । यदाप॑ः । प॒शू-
ना॑मे॒व स॒ञ्ज्ञाने॒ऽग्निं चि॑नुते । प॒शु॒मान् भ॑वति । य ए॒वं
वेद॑^(७) ॥ ४ ॥
^(८)वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टि॑ः । प॒र्जन्यो॑ वर्षुको
भवति । य ए॒वं वेद॑^(८) । ^(९)आ॒म॒या॒वी चि॑न्वीत । आ-
पो॒ वै भै॑ष॒जं । भै॒ष॒जमे॒वास्मै॑ करोति । सर्व॒मायु॑रेति^(९) ।
^(१०)अ॒भिच॑रँश्चिन्वीत । वज्रो॒ वा आप॑ः ॥ ५ ॥
वज्र॑मेव भ्रातृ॑व्येभ्यः प्रह॑रति । स्तृ॒णुत ए॒नं^(१०) ।


अथ द्वितीयकाम्यं दर्शयति । ^(७)“पशुकामश्चिन्वीत •
य एवं वेद”^(७) इति । ये तृषार्त्ताः पशवो यत्र क्वाप्योऽन्विष्य
जानन्ति तस्मात् ‘आपः,’ पशूनां’, सम्यग्ज्ञानसाधनं अतो-
ऽप्सुचयने सति ‘पशूनां’, ज्ञानसाधन ‘एव’, अग्निश्चितो भवति ॥

अथ तृतीयं दर्शयति । ^(८)“वृष्टिकामश्चिन्वीत • य एवं
वेद”^(८) इति ॥

चतुर्थं दर्शयति । ^(९)“आमयावी चिन्वीत • सर्वमायुरेति”
^(९) इति । तापशान्तिकरत्वादपां भेषजत्वं ॥

पञ्चमं दर्शयति । ^(१०)“अभिचरँश्चिन्वीत • स्तृणुत एनं”
^(१०) इति । उपरिष्टात् ता आपो वज्रोभूत्वेत्येव वक्ष्यते । तस्मा-
दपां वज्रत्वं । अत्रापामेवोपधेयत्वात् सर्वतः फलसाधनत्वेना-
पामेवोपप्रशंसं ॥

I 2