सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 167, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 167

१६२ तैत्तिरीये आरण्यके

तस्मा॒न्नानु॒षञ्ज्यः॑।^(४)। ^((५))सोऽत्त॑रवे॒दिषु॒ क्रतु॑षु चिन्वीत ।
उ॒त्त॒र॒वेद्याꣳ॒ ह्य॒ग्निश्ची॒यतै॑।^(५)। ^((६))प्र॒जाका॑मश्चिन्वीत ॥३॥
प्रा॒जा॒प॒त्यो वा ए॒षोऽग्निः॑ । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒-
जावा॑न् भवति । य ए॒वं वेद॑।^(६)। ^((७))प॒शुका॑मश्चि-

'वृषा' सेक्ता, रेतःसेचनेन प्रजामुत्पादयितुं समर्थः । तादृशो
यद्यनुषङ्गं कुर्यात् तदानीमस्याग्निचितो वृषणद्वयं कसिद्वैरौ
'संस्फात्नयेत्' पीडयेत् । 'अस्य', 'यज्ञः', अपि विनश्येत् । 'तस्मात्',
सावित्राग्निरितरत्र नानुषञ्जनीयः, स्वतन्त्रा एवैते सर्वेऽग्नयः ।
तस्मादारुणकेतुकस्य स्वातन्त्र्येणैव क्रत्वङ्गत्वयुक्तमित्यर्थः ॥

क्रतुविशेषे तत्सम्बन्धं विधत्ते । ^((५))"सोत्तरवेदिषु
ह्यग्निश्चीयते"^(५) इति । उत्तरवेदिसहिता ये क्रतवः पशुबन्धा-
दयः तेष्वेवारुणकेतुकमग्निं 'चिन्वीत', नतूत्तरवेदिरहितेष्वग्नि-
होत्रादिषु । यस्मादयं 'अग्निः,' उत्तरवेदिस्थाने 'चीयते',
तस्मात् तद्रहितं तच्चयनं न युक्तं । एवं सत्यस्मदग्निनिषेधात्
पूर्वोक्तादग्निहोत्रदर्शपूर्णमासयोरित्यादिविधानाच्चाग्निहोत्रादा-
वारुणकेतुकस्य विकल्पो द्रष्टव्यः ॥

अथास्य चयनस्य काम्यप्रयोगाः । तत्रैकं काम्यं दर्शयति ।
^((६))"प्रजाकामश्चिन्वीत • य एवं वेद"^(६) इति । अग्नेः प्रजानां
च प्रजापतिना सृज्यत्वात् प्राजापत्यत्वम्तेन साम्येन प्रजाफल-
कत्वमग्नेः ॥