स्याद्वादमञ्जरी (आचार्य मल्लिषेण सूरि - डॉ. जगदीशचन्द्र जैन सविस्तार हिन्दी अनुवाद सटीक)
Syadvadamanjari of Mallishena Suri with Hindi Commentary
आचार्य मल्लिषेण सूरि (अनुवादक: डॉ. जगदीशचन्द्र जैन) द्वारा
पृष्ठ 70, कुल 458 में से
संदर्भ में पढ़ेंन च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति । पुद्गलानां तत्तत्साम-
ग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्यापि दर्शनात् । दृष्टो ह्यार्द्रन्धनसंयोगवशाद् भास्वर-
रूपस्यापि वन्हेग्भास्वररूपधूमरूपकार्योत्पादः । इति सिद्धो नित्यानित्यः प्रदीपः । यद्यपि
निर्वाणादर्वाग्देदीप्यमानो दीपस्तथापि नवनवपर्यायोत्पादविनाशभाक्त्वात् प्रदीपत्वान्वयाच्च
नित्यानित्य एव ।।
एवं व्योमाप्युत्पादव्ययध्रौव्यात्मकत्वाद् नित्यानित्यमेव । तथाहि । अवगाहकानां
जीवपुद्गलानामवगाहदानोपग्रहे^१ एव तल्लक्षणम् । “अवकाशदमाकाशम्^२” इति वचनात् ।
यदा चावगाहका जीवपुद्गलाः प्रयोगतो^३ विस्रसातो^४ वा एकस्मान्नभःप्रदेशात् प्रदेशान्तर-
मुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकस्मिन् प्रदेशे विभागः उत्तरस्मिंश्च प्रदेशे