स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
११ उपोद्धातः
दर्पोद्यतोल्बणकबन्धनकपीन्द्रहन्ता
पायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥
एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि
विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि ।
(नेपथ्य)
सुग्रीव! इत इतः ।
.... .... .... .... .... .... .... .... .... ....
.... .... .... .... .... .... .... .... .... ....
स्थापना ।”
(समाप्तिवाक्यम् ) —
“(भरतवाक्यम् )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ।
(निष्क्रान्ताः सर्वे)
सप्तमोऽङ्कः ।
अभिषेकनाटकं समाप्तम् ॥”
यथा च प्रतिमानाटकस्य ( आरम्भवाक्यम् ) —
“(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः—
सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च ।
यो रावणार्थप्रतिमश्च देव्या विभीषणात्मा भरतोऽन्यसर्गः ॥
( नेपथ्याभिमुखमवलोक्य ) आर्ये! इतस्तावत् ।
(प्रविश्य)
नटी — अय्य! इअम्हि ।
उपोद्घातः १७
सूत्रधारः — आर्ये! इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् ।
नटी — अय्य! तह । (गायति)
सूत्रधारः — अस्मिन् हि काले,
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा ।
(नेपथ्ये)
अय्य! अय्य!
सूत्रधारः — भवतु विज्ञातम् ।
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥
(निष्क्रान्तौ)
स्थापना ।”
(समाप्तिवाक्यम्)—
“(भरतवाक्यम्)
यथा रामश्च जानक्या बन्धुभिश्च समागतः ।
तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥
(निष्क्रान्ताः सर्वे)
सप्तमोऽङ्कः ।
प्रतिमानाटकं समाप्तम् ॥”
एषां नाटकानामुपदर्शितेन नाटकान्तरविलक्षणेन प्रस्थानेन न केवलं,
किन्तु केषुचिन्नाटकेषु वाक्यानुपूर्व्यैक्येनापि परस्परसाम्यमुदाहृतवाक्येभ्यः प्रका-
नाटकानां | शते । तथाहि — “एवमार्यमिश्रान् विज्ञापयामि । अये किं-
मिथः संवादः । | न्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि”
इत्येषानुपूर्वी प्रतिज्ञा-चारुदत्त-अविमारक-प्रतिमा-कर्णभारनाटकान्यपहाय
सर्वेष्वन्येषु दृश्यते ।
१८ उपोद्घातः
“इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥”
इति भरतवाक्यानुपूर्वी स्वप्ननाटकबालचरितयोः समाना ।
“भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।
इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥”
इत्यानुपूर्वी प्रतिज्ञा-अविमारक-अभिषेकनाटकेषु लक्ष्यते । “इमामपि महीं
कृत्स्नां राजसिंहः प्रशास्तु नः” इत्यानुपूर्वी पञ्चरात्रेऽप्यस्ति ।
मङ्गलश्लोके नाटकीयप्रधानपात्रनामविन्यासः स्वप्ननाटक इव प्रतिज्ञा-
पञ्चरात्रप्रतिमानाटकेषूपलभ्यते ।
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिविफलतां गता ॥”
इत्ययं श्लोकश्चारुदत्तप्रथमाङ्क इव बालचरितप्रथमाङ्के दृश्यते । “किं वक्ष्यतीति
हृदयं परिशङ्कितं मे” इत्ययं श्लोकपादः स्वप्नवासवदत्तषष्ठाङ्क इव अभिषे-
कनाटकचतुर्थाङ्क उपलभ्यते । “धर्मस्नेहान्तरे न्यस्ता” इत्ययं श्लोकपादः प्रति-
ज्ञानाटिकाद्वितीयाङ्क इवाभिषेकनाटकषष्ठाङ्केऽप्यस्ति । एवञ्जातीयका अन्ये-
ऽप्युक्तिभङ्गीनां संवादा एषु नाटकेषु दृश्याः ।
एवं परस्परात्यन्तसंवाददर्शनाद् एतैर्नाटकैरेककविकर्तृकैर्भाव्यमिति, प्रस्ता-
वनायां कविकाव्यनामानानाख्यानात् तदाख्याननियमारम्भात् प्रागेवैतान्युद्भूतानीति,
[नाटककर्तृनिर्णयः ।] उदाहरिष्यमाणकवितागुणसमृद्ध्यनुरोधादेषां कर्ता सुप्रसिद्धः
पुरातनः कश्चिद् महाकविर्भवितुमर्हतीति च मम बुद्धिरुत्प-
न्ना । अनया वत्सराजगतवासवदत्ताविषयस्वप्नवर्णनात् स्वप्ननाटकमिदमाचार्या-
भिनवगुप्तपादादिप्राचीनग्रन्थेभ्यो नाममात्रेणास्माभिर्विज्ञातं यत् स्वप्नवासवदत्तं
नाम नाटकं, तदेव नामैकदेशग्रहगृहीतं स्यादिति सम्भावनया चास्मिन् स्वप्नना-
टकादिनाटकचक्रे भक्तिबहुमानावसामान्यौ मे सञ्जातौ । स्वप्नवासवदत्तस्य हि
अलभ्यमित्यद्ययावदवधारितस्य प्रणेता श्रीभासमहाकविरित्ययमर्थः
उपोद्घातः १९
“भासनाटकचक्रेऽपिच्छेकैः क्षिप्ते परीक्षितुम् ।
स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥”
इति राजशेखरश्लोकात् सूक्तिमुक्तावलिगतादवगत एव सर्वलोकस्य ।
एष एव खलु महाकविः मालविकाग्निमित्रप्रस्तावनायां “प्रथितयशसां भाससौ-
मिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य” इति श्रीकालिदासेन,
“सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः ।
सपताकैर्यशो लेभे भासो देवकुलैरिव ॥”
इति हर्षचरिते भट्टबाणेन चोपश्लोकितः । एवमेषां भासकृतित्वे सिद्धे “सूत्रधा-
रकृतारम्भैर्”ति भट्टबाणोक्तं सूत्रधारकृतारम्भत्वं भासकृतीनामसाधारण एव धर्मः
कामं प्रत्येतुं शक्यः, एषु सर्वेष्वपि नाटकेषु “नान्द्यन्ते ततः प्रविशति सूत्रधार”
इत्येव ग्रन्धारम्भस्य कालिदासादिनाटकविलक्षणस्य दर्शनात् ।
तत इमान्यपूर्वाणि संमुद्र्य प्रकाशयितुमिच्छता मया तेषु सुप्रसिद्धनाम्नि
स्वप्नवासवदत्ते बहुषु पत्रेष्वक्षराणां त्रुटिततया, चारुदत्तस्य चतुर्थाङ्कावधिकत्वे-
नासमग्रतया, कर्णभारस्य स्थापनादिविकलतया च तेषां
[Margin note: आदर्शन्र्तलाभः ।] नाटकानां समग्रस्वरूपसम्पादनाय मातृकान्तरान्वेषणे
प्रयत्नः कृतः । भारते युरोपदेशे च तदर्थं बहून् पण्डितान् लेखद्वारेणायाचिषि ।
चिरप्रनष्टानां भासकृतीनामीदृशविकलैकमातृकालाभ एव परमलाभो मन्तव्य
इति बोधयन्तो यद्यपि बहवः प्रतिलेखा आयाताः, तथापि स्वप्ननाटकस्य
प्रतिज्ञायौगन्धरायणस्य चैकमादर्शान्तरमशुद्धमपि दिष्ट्या समग्रं मम हस्तं प्रा-
प्तम् । तद्धि बङ्गलूरपुरे पुरातनवस्तुविचारकार्यालयपण्डितेन श्रीमता आ-सूरि-
अनन्ताचार्येण मत्प्रियसूहृदा कुतश्चित् केरलीयतदादर्शस्य प्रतिशरीरात् प्रतिले-
खितं कृपया मह्यं प्रेषितम् । अस्य स्वप्ननाटकादर्शस्यान्ते “स्वप्नवासवदत्ता
समाप्ता” इत्यस्मत्सम्भावितचरनामधेयानुगुणमेव नामधेयं लिखितं दृष्टम् ।
प्रतिज्ञानाटिकादर्शस्यान्ते च “प्रतिज्ञायौगन्धरायणम्” इति पूर्णनामधेयं लि-
खितम् ।
अस्योपमातृकालाभस्यानुपदं क्वचिद् यात्रायां हरिप्पांडुपुरे पुत्तियल्-
सुब्रह्मण्यशर्मसकाशाद् अविमारकस्य मातृकान्तरं किञ्चिल्लब्धम् । एता उप-
मातृका आश्रित्य त्रीणि नाटकानि संशोधितानि । अन्यानि तु संशोध्यन्ते ।
अस्य नवादर्शस्य साहाय्यात् स्वप्नवासवदत्तस्याविकलं शरीरं निष्पन्नमासीत् ।
तेनाहमेतन्नाटकविषयस्य मत्परिश्रमस्य चारितार्थ्यं समर्थयन् नवादर्शदानोपकारि-
णि श्रीमदनन्ताचार्यमहाशयेऽतीव कृतज्ञतां वहामि । अथ स्वप्नवासवदत्तस्यो-
पक्रान्ते मुद्रणे अन्याप्युपमातृका चेङ्ङनूरताळमण्णमठकृष्णतन्त्रिसकाशाद-
धिगता, तथा प्रतिज्ञायौगन्धरायणस्याभिषेकनाटकस्य प्रतिमानाटकस्य
पूर्वोक्ताज्ञातनामकनाटकांशस्य च ।
११५९–तमक्रैस्ताब्दस्थितेन वन्द्यघटीयसर्वानन्देनाममरकोशटीकास-
र्वस्वे “शृङ्गारवीरकरुणे”ति श्लोकव्याख्याप्रसङ्गात् “स्वदिशमात्मसात्कर्तुम् उद-
(भासकालविचारः ।) यनस्य पद्मावतीपरिणयोऽर्थशृङ्गारः स्वप्नवासवदत्ते, तृती-
यस्तस्यैव वासवदत्तापरिणयः कामशृङ्गार” इति वदता-
स्मदीयमिदं स्वप्नवासवदत्तं स्मृतमित्यसन्दिग्धं, तस्यैवार्थशृङ्गारस्यात्र *वर्णनात् ।
श्रीमदाचार्याभिनवगुप्तपादैः क्रैस्ताब्दनवमशतकस्थितैः प्रणीतायां भरतनाव्य-
वेदविवृत्तौ स्वप्नवासवदत्तायाः स्मरणमस्ति “क्वचित् क्रीडा यथा स्वप्नवासव-
दत्तायाम् (अध्या. १. श्लो. ७४) इति । दरिद्रचारुदत्तमित्यपि किञ्चिन्नाटक-
नाम तत्र स्मर्यते । तन्मन्ये, एतदेव चारुदत्तनाटकं स्यात् ।
ध्वन्यालोककर्तुरानन्दवर्धनात् क्रैस्ताब्दनवमशतकस्थितात् प्राची-
नस्य वामनस्य काव्यालङ्कारसूत्रवृत्तौ पञ्चमाधिकरणस्य द्वितीयाध्याये स्वप्न-
नाटकचतुर्थाङ्कस्थं पद्यमुदाहृतं —
“शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! ।
काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥”
इति । अस्यैव पञ्चमाधिकरणद्वितीयाध्याये प्रतिज्ञायौगन्धरायणचतुर्थाङ्कगतस्य
- कथावस्तुसंक्षेपो दृश्यताम् ।
उपोद्घातः २१
पद्यस्य चतुर्थः पाद उदाहृतः “यो भर्तृपिण्डस्य कृते न युध्येत्” (श्लो. ४)
इति । तथा तत्पञ्चमाधिकरणस्य प्रथमाध्याये चारुदत्तनाटकप्रथमाङ्कगतः श्लोक
उदाहृतः—
“यासां बलिर्भवति मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वः ।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु बीजाञ्जलिः पतति कीटमुखावलीढः ॥”
इति ।
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥”
इत्यस्य बालचरितप्रथमाङ्के चारुदत्तप्रथमाङ्के च स्थितस्य श्लोकस्य पूर्वार्धं खैस्ता-
ब्दषष्ठशतकभाजा दण्डिना काव्यादर्शस्य द्वितीयपरिच्छेदे उदाहृतं—
“लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ”॥ २२१ ॥
इति ।
अस्ति ध्वन्यालोकलोचने (पृ. १५२. उ. ३)
“सञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपतडनेन(!) ।
उद्घाट्य सा प्रविष्टा हृदयगृहं मे नृपतनूजा ॥”
इति काचिदार्या स्वप्नवासवदत्तगततयोदाहृता । सा मन्ये स्वप्नवास-
वदत्तगता न भवति, अस्मदीयेषु त्रिष्वपि स्वप्नवासवदत्तादर्शेष्वनुपलम्भात् ।
किञ्च, काञ्चित् प्रत्यग्रदृष्टां स्त्रियं प्रति प्रतिनवाभिलाषोदयः श्लोके तस्मिन् प्रती-
यते । स वासवदत्ताविषयो वा स्यात् पद्मावतीविषयो वा। नाद्यः, परिणीतचर-
वासवदत्ताप्रवासविप्रलम्भस्यैव तत्र प्रकृतत्वात् । नापि द्वितीयः, यदृच्छागतस्य
प्रार्थना मन्तरेण दर्शकेन स्वयंदत्तां पद्मावतीं प्रतिगृहीतवतो वासवदत्ताशोकस-
१ 'भक्तपुष्पः।' इति चारुदत्ते ।
तत्तद्दह्यमानहृदयस्य वत्सराजस्य पद्मावतीविषयाभिलाषवर्णनं प्रति तत्र काप्य-
नवकाशात् । तेन स्वप्नवासवदत्ते तस्य श्लोकस्य निवेशयोग्यं स्थानमलभमानस्य
चिरनिष्प्रचारत्वमूलः पाठभ्रंशोऽपि नानुमातुं शक्यः । एवं साहित्यदर्पणस्य
षष्ठपरिच्छेदे ८५-तमकारिकाविवरणे
“उत्साहातिशयं वत्स! तव बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाक्रान्तं युगपन्मनः ॥”
इति यः श्लोको बालचरितगतत्वेनोदाहृतः, स कामं रामबालचरित-
गतो भवेत् । अत एव दर्पणव्याख्याता “दाशरथिं प्रति भार्गवस्योक्तिरियम्” इति
तं व्याचष्टे । अस्मदीयं तु बालचरितं कृष्णविषयमिति तस्य श्लोकस्यात्रादर्शनं
युक्तमेव ।
भामहकृतकाव्यालङ्कारस्य चतुर्थपरिच्छेदे कुतश्चित् काव्यान्यायविरोध
उदाहृत्य निरूपितः । यथा—
“विजिगीषुरुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४० ॥
अन्तर्योधशताकीर्णं सालङ्कायननेत्तृकम् ।
तथाविधं गजच्छद्म नाज्ञासीत् स स्वभूगतम् ॥ ४१ ॥
यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४२ ॥
शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।
मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥ ४३ ॥
हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥ ४४ ॥
अस्यन्तो विविधान्याजावायुधान्यपराधिनम् ।
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥ ४५ ॥
नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् ।
शास्त्रलोकावपास्यैव नयन्ति नयवेदिनः ॥ ४६ ॥
उपोद्घातः २३
सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।
विशेषं वेद बालोऽपि कष्टं किन्नु कथन्नु तत् ॥ ४७ ॥"
इति । अस्या भामहसमालोचनायाः सर्वो विषयः प्रतिज्ञानाटिकायां वर्तते ।
अपिच प्रतिज्ञानाटिकायाः प्रथमाङ्के यानि “ अणेण मम भादा हदो, अणेण-
मम पिदा, अणेण मम सुदो” इति प्राकृतवाक्यानि, तानि “ हतोऽनेन मम
भ्राता मम पुत्रः पिता मम ” इति श्लोकरूपेणानूदितानि भामहेनास्मिन् न्याय-
विरोधसमालोचनप्रकरणे । अतो भामहेन प्रतिज्ञानाटिकैवानुसंहितेत्यूहितुं
शक्यते । नाटिकाया नामधेयं तु तत्कालातिप्रसिद्धिवशादकथितमपि सुज्ञानमिति
धिया भामहेन न निर्दिष्टं स्यात् । अस्य भामहसमालोचनाविषयभूतस्य कथा-
वस्तुनो बृहत्कथायामपि सत्त्वाद् भामहेन सैवानुसंहिता, न तु प्रतिज्ञानाटि-
केति तु न शङ्कनीयं, “हतोऽनेन मम भ्राते”ति भामहेनानूद्यमानस्य वाक्यस्य
प्रतिज्ञायां प्रत्यक्षतयोपलब्धेः, बृहत्कथायां तस्य सद्भावकल्पनायां प्रमाणा-
भावात् । वस्तुतस्तु भामहकालात् परत एव बृहत्कथाया निष्पत्तिरित्यनुपदं
वक्ष्यामः । स चायं भामहः कालिदासात् प्राचीनः प्रतिभाति । तेन हि मेधा-
वी, रामशर्मा, अश्मकवंशं, रत्नाहरणम्, अच्युतोत्तरम् इत्यस्मदविदितानि
कविकाव्यनामानि गृहीतानि । सर्वलोकविदितस्य तु श्रीकालिदासस्य तत्काव्यस्य
वा लोकोत्तरस्य कस्यचिन्न नामधेयं गृहीतम् । भामहाचार्यश्चेत् कालिदा-
सकाव्यमद्रक्ष्यत्, तदवश्यं निरदेक्ष्यद् अतिप्रसिद्धत्वादनिर्देशन्नपि विषयवि-
चारादिद्वारेण प्रतिज्ञानाटिकामिव वास्मरिष्यत् । यद्यपि
“अयुक्तिमद् यथा दूता जलभृन्मारुतादयः ।
तथा भ्रमरहारीतचक्रवाकशुकादयः ॥ ४२ ॥
अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः ।
कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ॥ ४३ ॥
यदि चोत्कण्ठया तत्तदुन्मत्त इव भाषते ।
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ॥ ४४ ॥ ”
(भाम. काव्याल. परि. १)
२४ उपोद्घातः
इति युक्तायुक्तत्वविचारे मेघमारुतादिदूतीकरणं विषयतया भामहेन प्रस-
ङ्गितं, तथापि तावता मेघदूतकाव्यं स जानातीति न युक्तं कल्पयितुम् । तथासति
ह्यस्तनेन केनापि कविना प्रणीतं शुकसन्देशमपि स जानातीति कल्पनीयमाप-
द्येत । अतो, मन्ये, केषुचित् काव्येषु विप्रलम्भादिप्रसङ्गे मारुतचन्द्रमेघा-
द्यचेतनद्वारेण भ्रमरचक्रवाकशुकाद्यव्यक्तवाक्प्राणिद्वारेण च प्रियजनाय विर-
हिणां सन्देशप्रेषणं क्वचित् क्वचिद् यद् वर्ण्यते, तदुन्मादावस्थायां नेष्यत इत्येत-
देव सामान्यत आचार्यः श्लोकैरेभिरुपदिष्टवान् , तच्चेदमाचार्योपदेशतात्पर्यं हृदि
निधायैवौचित्यवेदी कालिदासो मेघदूतस्यारम्भे तद्दूतीकरणानौचित्यमाशङ्क्य
परिजहार—
“धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥” (पूर्वमेघ. ५)
इति श्लोकेन । एवं तावत् सिद्धं भामहस्य कालिदासात् प्राचीनत्वम् । ननु
च कालिदासेन मेघदूते “प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्” (पूर्वमे-
घ. ३०) इति कालिदासकालवर्तिनाम् अवन्तिजनपदग्रामवृद्धानाम् उदयनकथो-
दाहरणनिपुणतोक्त्या उदयनसंज्ञवत्सराजद्रष्टृत्वप्रतीतेः उदयनः कालिदासस-
न्निकृष्टपूर्वकालो भवितुं युक्तः । तत् कथं भामहो वत्सराजस्यात्मकालसन्निकर्षं
लेशतोऽप्यसूचयन् प्रत्युत तमितिहासमात्राधीतप्रायं स्फोरयन् कालिदासात्
प्राचीनः स्यात् । नैतत् । मालविकाग्निमित्रप्रस्तावनायां हि “प्रथितयशसां
भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां
कथं बहुमान” इति भासस्य प्रथितयशस्त्वमाह कालिदासः, पुराणत्वं च
भासकाव्यस्य प्रत्येति । “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्य-
वद्यम् ॥” इति । तदुभयस्वरसाद् भासस्य कीर्तेश्चिरकालक्रमसिद्धा परा काष्ठा
कालिदासकाले स्थितेति गम्यते । सा चावरतस्तत्कृतीनां सप्ताष्टवर्षशतकप्रचार-
मन्तरेण न सम्भाव्येति कृत्वा कालिदासापेक्षम् अतिप्राचीनत्वं भासस्य न्याय्यं,
उपोद्घातः २५
सुतरां तु भासनाटकनायकस्योदयनस्येति न कथञ्चिदप्युदयनस्य कालिदास-
सन्निकृष्टपूर्वकालत्वशङ्काया अवकाशः । “उदयनकथाकोविदग्रामवृद्धान्” इत्येतच्च,
अवन्तिग्रामवृद्धाः स्वानुपलब्धमेवेतिहासाद्यधीतं स्वजनपदनिर्वृत्तम् उदयनकथा-
द्भुतं पुरावृत्तप्रेम्णा वृद्धभावसहभुवा शंसन्त आद्रियन्त इत्येवमभिप्रायं, न तु
तेषामुदयनद्रष्टृत्वानुमापकम् । अतः सुस्थं भामहस्य कालिदासप्राचीनत्वम् ।
अपिच, भामहः काव्यालङ्कारे कथार्यायिकयोः स्वरूपं निरूपयन् बृहत्कथां
नानुसन्धत्ते । सा हि कथाविशेषत्वात् तत्प्रसङ्गे स्मर्तुमुचिता। तथा च दण्डी का-
व्यादर्शे कथार्यायिकाप्रस्तावे “भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्”
इति बृहत्कथां स्मरति । तेन मन्ये, भामहकाले बृहत्कथा नावर्ततेति ।
तदुत्तरकाल एव तास्ताश्चमत्कारिणीरुच्चावचाः कथा इतिहासतः स्वप्नवासव-
दत्तादिकाव्यतो लोकतश्चौचित्य स्वयं कल्पयित्वा च बृहत्कथां नाम कथाभाण्डा-
गारं नूनं गुणाढ्यो जग्रन्थ । गुणाढ्यश्च शकप्रवर्तकशालिवाहनसमकाल इति
शालिवाहनतोऽपि भामहः प्राचीनो भवन् क्रैस्ताब्दारम्भप्राक्तनं प्रथमं वर्षशतकं
संस्पृशति । भामहादपि तु जरत्तरतामर्हन्नस्मन्नाटकचक्रकविः क्रैस्तप्राक्तने तृतीये
द्वितीये वा वर्षशतके निवेशमवश्यं लभते ।
किञ्च, राज्यतन्त्रविद्याचार्यः कौटिल्य इति चाणक्य इति च पर्यायवा-
च्यो विष्णुगुप्तश्चन्द्रगुप्तसमानकालः क्रैस्तप्राचीने चतुर्थे वर्षशतके स्थित इति
सुप्रसिद्धम् । तत्प्रणीते कौटिलीयार्थशास्त्रे मन्त्रिपुरोहितकरणीयस्य योधयुद्ध-
प्रोत्साहनस्य प्रकारोपदेशावसरे “तुल्यवेतनॊऽस्मि, भवद्भिः सहभोग्यमिदं राज्यं,
मयाभिहितः परोऽभिहन्तव्यः' इति, वेदेष्वप्यनुश्रूयते - समाप्तदक्षिणानां यज्ञा-
नामवभृथेषु 'सा ते गतिर्या शूराणामि'ति, अपीह श्लोकौ भवतः -
“यान् यज्ञसङ्घैस्तपसा च विप्राः स्वर्गैषिणः पात्रचयैश्च यान्ति ।
क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥”
“नवं शरावं सलिलैस्य पूर्णं सुसंस्कृतं दर्भकृतोत्तरीयम् ।
तत् तस्य मा भून्नरकं च गच्छेदू यो भर्तृपिण्डस्य कृते न युध्येत् ॥”
इति मन्त्रिपुरोहिताभ्यामुत्साहयेद् योधान्” (कौटि. अर्थ. अधि. १०. अध्या. ३)
१. 'लैः सुपूर्', २. 'स' इति प्रतिज्ञानाटिकायाम् ।
23890
२६ उपोद्घातः
इति दृश्यते । शूरस्य सद्गतिर्युद्धे प्राणांस्त्यक्तवतः यज्ञतपस्साध्यकामलाभः
विजयिनः *समर्हणा च लोके सुलभा इति, राज्ञः पिण्डदातुरर्थे युद्धमकुर्वन् पा-
पीयान् भवतीति चोदाहृतवाक्यानामभिप्रायः। तत्र “नवं शरावम्” इत्येष श्लोकः
प्रतिज्ञायौगन्धरायणस्य चतुर्थाङ्के भटान् प्रति कस्यचित् प्रोत्साहनवाक्यतया
निवेशितः । अस्य श्लोकस्य किमर्थशास्त्रान्नाटके समुद्धरणम् उताहो नाटकादर्थ-
शास्त्रे इति चिन्तनीयम् । तत्र युद्धप्राणत्यागस्य धर्महेतुत्वं भर्तृपिण्डानिर्यातनस्य
पापहेतुत्वं चार्थप्रधानेन यदुपदिश्यते, तत् प्रमाणानुग्रहविकल्पमुपप्रलो-
भनप्रायमविश्वास्यं भवतीति तत्रावश्यं प्रमाणमुपदर्शनीयम् । तच्चादौ
“सा ते गतिरि”त्यादि श्रौतमुपदर्शितम् । पश्चात्तु अभियुक्तवचनरूपं स्मृ-
तिकल्पं श्लोकद्वयमिति स्वरसतः प्रतीतेः “नवं शरावम्” इति श्लोको
नार्थशास्त्रकारस्य स्वोक्तिर्भवितुमर्हति । परोक्त्यनुवादसहपाठादप्ययं श्लोकोऽर्थ-
शास्त्रकारस्य न स्वोक्तिः। “यान् यज्ञसङ्घैरि”ति पूर्वश्लोको हि ‘यान्’ ‘तान्’ इत्युभ-
यत्राप्यनिर्दिष्टं विशेष्यं किमपि कामलक्षणं लोकलक्षणं वा पूर्वप्रकृतमाकाङ्क्षन्सं-
शयं ग्रन्थान्तराभिजन इत्यनुवादरूपो निश्चितः । किञ्चार्थशास्त्रे कौटिल्यः स्वो-
क्तिरूपं श्लोकं श्लोकौ श्लोकान् वा न क्वचिदपि प्रतिज्ञापूर्वं लिखितवान् । इहैकत्र
परम् “अपिह श्लोकौ भवत” इति तस्य पूर्वप्रतिज्ञाकरणमालक्ष्यमाणमुत्तरयोः
श्लोकयोः परकीयतामेव द्योतयदर्थवद् भवति । काव्ये पुनः शास्त्रलोकसिद्धमर्थं
वश्यवाचो महाकवय उत्सर्गतः स्वोक्त्यैव प्रतिपादयन्ति, यत्रक्वचित् परवचनानु-
पूर्वीमनुवदन्तो वा तेऽनुवादचिह्नमवश्यं कुर्वन्तीति प्रतिज्ञायौगन्धरायणे अनुवा-
दलिङ्गाकरणाद् “नवं शरावम्” इति श्लोको भासमहाकवेरेव स्वोक्तिरिति युक्तं पश्या-
मः । तेनार्थशास्त्रकाराच्चाणक्यादप्यस्मन्महाकवेः प्राचीनत्वं सिद्धं भवति । यस्तु
मेधातिथिः प्रतिमानाटकस्य पञ्चमाङ्के रामं प्रति रावणवाक्ये “भोः काश्यपगो-
त्रोऽस्मि, साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्त्रं, बार्ह-
स्पत्यमर्थशास्त्रं, मेधातिथेर्न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च ” इति स्मर्यते, स
दिव्यानुभावपुरुषप्रायपाठात् तथाभूतः कश्चिन्महर्षिः स्याद्, न पुनर्मानवी-
यव्याख्याता पण्डितविशेष इति भासं प्रति नैतदर्वाचीनत्वभ्रान्तेरवकाशः॥
उपलभ्यते चैतावत्प्राचीनत्वानुगुणा नाटकेष्वेतेषु गुणसमृद्धिः । अत्र
- पूर्णजलकलशोपहारलाभरूपा पूजा।
उपोद्घातः २७
हि प्रसन्नोदारगम्भीरा सरसहृदयङ्गमा भाषायाः शैल्येव तावदन्यादृशी
काव्यगुणसमृद्धिः । प्रायः, यस्या वर्षसहस्रादर्वाचीनेषु काव्येष्वतिविरलं दर्शन-
मभाव एव वा ।
सुशिक्षितमतिगोचरैः प्रशस्तैर्जनमनोविमर्शैर्नानारूपैः सन्ति सर्वतः
समृद्धा इह वाक्यसमुदाहाराः ।
अवस्थाभेदभिन्नाः सुसूक्ष्मास्तत्तद्वस्तुपरमार्था यथा सचेतसां पुर इव
परिस्फुरेयुस्तथेह प्रतिपादिताः ।
अपिच, यदौचित्यं नाम प्रतिपाद्यसङ्कोचविकासयोर्वा रसानुरूप-
शब्दार्थपरिग्रहे वा, तत् क्वचिदप्यत्र रसैकदृष्टिना महाकविना न लङ्घितम् ।
कामं वयं सरसभणितीनामनायासप्रसरं प्रसिद्धासु एकद्वमहाकवि-
कृतिषु न खलु नालक्षयामः । किन्तु तस्य परमा काष्ठैतस्मिन् नाटकचक्रे संल-
क्ष्यते । इदं हि आत्मीयकवेर्मुखान्निःश्वसितनिर्विशेषं विनिस्सृतमिति न खलु नोदे-
ति सचेतसामेतत् परिशीलयतां बुद्धिः । सर्वथैतद्गतं शब्दार्थसौष्ठवमार्षसूक्तिसौ-
ष्ठवस्यैव, मन्ये, चारुतरं भूमिकान्तरमिति ।
एषु रूपकेष्वैकैकस्मिन्ननुवाच्यमाने गुणानेतान् इतोऽधिकांश्च सहृदयाः
स्वयमसंशयं प्रत्यक्षयिष्यन्ति । एषां पृथगुदाहृतिर्बहुवाक्यानुसन्धानसापेक्षा वाग्वि-
स्तरोपपाद्या चोपोद्घातमतिमात्रं विस्तारयेदिति नेदानीं तत्र संरभामहे । सामा-
न्यतस्तु शैलीप्रदर्शनार्थं कानिचिद् वाक्यानि तत्तन्नाटकेभ्य उदाहरामः ।
स्वप्नवासवदत्ते वने पद्मावतीपरिजनकृतोत्सारणादुःखितां वासवदत्तां
प्रति यौगन्धरायणस्याश्वासनोक्तिरियं —
‘‘पूर्वं त्वयाप्यभिमतं गतमे*वमासी-
च्छ्लाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
- एवं गतं परिजनविभवोपेतं गमनमित्यर्थः।
२८ उपोद्घातः
कालक्रमेण जगतः परिवर्तमाना
चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥” (अ. १. श्लो. ४)
सत्कारः सत्कारेण स्वीकर्तव्य इत्यमुमर्थं प्रति वत्सराजस्य समर्थनावाक्यं —
“गुणानां वा विशालानां सत्काराणां च नित्यशः ।
कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः ॥” (अ. ४. श्लो. ९)
प्रतिज्ञानाटिकायां प्रयत्नस्य फलावश्यम्भावोक्तिः—
“काष्ठादग्निर्जायते मथ्यमानाद्
भूमिस्तोयं खन्यमाना ददाति ।
सोत्साहानां नास्त्यसाध्यं नराणां
मार्गारब्धाः सर्वयत्नाः फलन्ति ॥” (अ. १. श्लो. १८)
वरेषु गवेषणीयगुणपरा महासेनस्योक्तिः—
“कुलं तावच्छ्लाघ्यं प्रथममभिकाङ्क्षे हि मनसा
ततः सानुक्रोशं मृदुरपि गुणो ह्येष बलवान् ।
ततो रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात्
ततो वीर्योद्रिक्तं न हि न परिपाल्या युवतयः ॥” (अ. २. श्लो. ४)
कन्यामातृणामवस्थोक्तिः—
“अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः ।
धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥” (अ. २. श्लो. ७)
पञ्चरात्रे द्रोणाचार्यस्य शिष्यविषयचिन्तोक्तिः—
“अतीत्य बन्धूनवलङ्घ्य मित्रा-
ण्याचार्यमागच्छति शिष्यदोषः ।
बालं ह्यपत्यं गुरवे प्रदातु-
र्नैवापराधोऽस्ति पितुर्न मातुः ॥” (अ. १. श्लो. १८)
उपोद्घातः २९
युधिष्ठिरस्य धार्तराष्ट्रदोषादात्मदोषाभिशङ्कनपरेयमुक्तिः—
“एकोदकत्वं खलु नाम लोके
मनस्विनां कम्पयते मनांसि ।
वैरप्रियैस्तैर्हि कृतेऽपराधे
यत्सत्यमस्माभिरिवापराद्धम् ॥” (अ. २ श्लो. ९)
योधकर्माभिनन्दनं प्रति विराटस्योक्तिः—
“ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा ।
अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥” (अ. २. श्लो. २८)
चारुदत्तनाटके अन्धकारविषयोक्तिः—
“सुलभशरणमाश्रयो भयानां
वनगहनं तिमिरं च तुल्यमेव ।
उभयमपि हि रक्ष्यतेऽन्धकारे
जनयति यश्च भयान्यश्च भीतः ॥” (अ. १. श्लो. २०)
चौर्यप्रवृत्तस्योक्तिः —
“लुब्धोऽर्थवान् साधुजनाभिमानी
वणिक् स्ववृत्तावतिकर्कशश्च ।
यस्तस्य गेहं यदिनाम लप्स्ये
भवामि दुःखोपहतो न चित्ते ॥” (अ. ३. श्लो. ७)
दूतघटोत्कचे धृतराष्ट्रस्याभिमन्युवधदुःखितस्योक्तिः —
“बहूनां समुपेतानामेकस्मिन् निर्घृणात्मनाम् ।
बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥” (श्लो. १७)
दुर्योधनं प्रति घटोत्कचस्योक्तिः —
१० उपोद्धातः
“ न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः
शिरसि न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः ।
न च सुतवधं सङ्कोचे वृत्तं स्मरन्ति निशाचरा
विकृतवपुषोऽप्युग्राचारा घृणा न तु वर्जिता ॥” (श्लो. ४५)
अविमारके राजभावस्य मन्त्रित्वस्य च दुर्वहतां प्रति राज्ञो मन्त्रिणश्चोक्ती—
“धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्ध्या
प्रच्छाद्यौ रागदोषौ मृदुपुरुषगुणौ कालयोगेन कार्यौ ।
ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं
रक्ष्यौ यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः ॥”
(अ. १. श्लो. १२)
“प्रसिद्धौ कार्याणां प्रवदति जनः पार्थिवबलं
विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति ।
अमात्या इत्युक्ताः श्रुतिसुखमुदारं नृपतिभिः
सुसूक्ष्मं दण्ड्यन्ते मतिबलविदग्धाः कुपुरुषाः ॥”(अ. १. श्लो. ५)
अयं निशारम्भवर्णने श्लोकः —
“व्यामृष्टसूर्यतिलको विततोडुमालो
नष्टातपो मृदुमनोहरशीतवातः ।
संलीनकामुकजनः प्रविकीर्णचोरो
वेषान्तरं रचयतीव मनुष्यलोकः ॥” (अ. २. श्लो. १३)
दैवस्य बलवत्तां प्रति श्लोकः —
“यत्ने कृते यदि न सिध्यति कोऽत्र दोषः
को वा न सिध्यति ममेति करोति कार्यम् ।
यत्नैः शुभैः पुरुषता भवतीह नॄणां
दैवं विधानमनुगच्छति कार्यसिद्धिः ॥” (अ. ३. श्लो. १२)
उपोद्घातः ३१
बालचरिते तमसः प्रभुत्वं प्रति यथा —
“ अप्रकाशा इव दिशो घनीभूता इव द्रुमाः ।
सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः ॥” (अ. १. श्लो. १६)
यथा च —
*“दुद्दिणविणट्ठजोण्हा ळत्ती वट्टइ णिमीलिआकाळा ।
संपाउदप्पसुत्ता णीळणिवषणा जहा गोवी ॥” (अ. १. श्लो. १९)
मध्यमव्यायोगे मङ्गलश्लोको यथा—
“पायात् स वोऽसुरवधूहृदयावसादः
पादो हरेः कुवलयामलखङ्गनीलः ।
यः प्रोद्यतस्त्रिभुवनैकमणे रराज
वैदूर्यसङ्क्रम इवाम्बरसागरस्य ॥” (श्लो. १)
राक्षसवर्णनं यथा—
“सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो
बभ्रुभ्रूः श्येननासो द्विरदपतिहनुर्दीर्घविश्लिष्टकेशः ।
व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः
सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥” (श्लो. २६)
कर्णभारे कवचकुण्डलदानं वारयितारं शल्यं प्रति कर्णोक्तिः—
“शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
- दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताकारा ।
सम्प्रावृतप्रसुप्ता नीलनिवसना यथा गोपी ॥
१२ . उपोद्घातः
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥” (श्लो. १९)
ऊरुभङ्गे भग्नोरुपतितस्य दुर्योधनस्य वर्णनं यथा—
“श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि-
भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः ।
निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरै-
राकर्षन्निव भोगमर्णवजले श्रान्तोझितो वासुकिः॥” (श्लो. २८)
अभिषेकनाटके सीताग्निप्रवेशचोदनादुःखितस्य लक्ष्मणस्योक्तिः—
“विज्ञाय देव्याः शौचं च श्रुत्वाचार्यस्य शासनम् ।
धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥” (अ. ६. श्लो. २१)
रावणस्य रामभयनिवारणोक्तिः—
“कथं लम्बसटः सिंहो मृगेण विनिपात्यते ।
गजो वा सुमहान् मत्तः सृगालेन निहन्यते ॥” (अ. ३. श्लो. १९)
प्रतिमानाटके रामस्य वचनम्—
“आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते
स्कन्धाच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः
स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥”
(अ. १. श्लो. ४)
रामस्य स्वाभिषेकाज्ञाश्रवणोत्तरमास्मपितृपादपतनवृत्तान्तोक्तिः सीतां प्रति—
“समं बाष्पेण पतता तस्योपरि ममाप्यधः ।
पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥” (अ. १. श्लो. ५)
उपोद्घातः ३३
कैकेयीकुपितस्य लक्ष्मणस्य रामं प्रत्युक्तिः—
“यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया
स्वजननिभृतः सर्वोऽप्येवं मृदुः परिभूयते ।
अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्चयो
युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ॥” (अ. १. श्लो. १८)
भरतस्य स्वजनदर्शनौत्सुक्यादुक्तिः—
“पतितमिव शिरः पितुः पादयोः स्निग्धतेवास्मि राज्ञा समुत्थापित-
स्त्वरितमुपगता इव आतरः क्लेदयन्तीव मामश्रुभिर्मातरः ।
सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाहं स्तुतः सेवया
परिहसितमिवात्मनस्तत्र पश्यामि वेषं च भाषां च सौमित्रिणा ॥”
(अ. ३. श्लो. ३)
भरतस्य कैकेयीं प्रत्युक्तिः—
“वयमयशसा चीरेणार्यो नृपो गृहस्मृत्युना
प्रततरुदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः ।
दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमै-
र्धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिताः ॥”
(अ. ३. श्लो. १६)
तस्यैवोक्त्यन्तरं—
“तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः ।
नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥” (अ. ३. श्लो. २२)
अविदितनामके नाटके मङ्गलश्लोकः—
“पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।
व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥”
३४ उपोद्घातः
एषा श्लोकानां शैली । अच्छन्दोबद्धानां तु वाक्यानां सर्वेषामपि काम-
नीयकं श्लोकतोऽप्युत्कृष्टमेषु रूपकेषु सर्वत्र सजातीयसर्वग्रन्थान्तरातिशायि निरु-
पमं च । तदेतद् ग्रन्थानुवाचनयैव सुखसंवेद्यं भावकानामिति नेह तद्वाक्योदा-
हरणप्रपञ्चं कुर्मः ।
न खलु सा काचिद् रीतिः कालिदासादिनाटकेष्वभिलक्ष्यते, यां भास-
महाकविः स्वेषु नाटकेषु न प्रस्थापयाम्बभूव । विक्रमाब्दारम्भोत्तरमनन्यगामिनीं
भासानुकरणम्। कविचक्रवर्तिख्यातिं लब्धवतः कालिदासस्य कृतिष्वभ्यर्हिते
अभिज्ञानशाकुन्तले भासकाव्यच्छायानामनुकरणं भूयिष्ठमुपलभ्यते । यथा —
“यस्यां न प्रियमण्डनापि महिषी देवस्य मन्दोदरी
स्नेहाल्लुम्पति पल्लवान् न च पुनर्वीजन्ति यस्यां भयात् ।
वीजन्तो मलयानििला अपि करैरस्पृष्टबालद्रुमा
सेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥”
इत्ययमभिषेकनाटकचतुर्थाङ्कगतः श्लोकः । अस्यच्छाया शाकुन्तलचतुर्थाङ्कस्थे
“पातुं न प्रथमं व्यवस्यति पयो युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥”
इत्यस्मिन् पद्ये लक्ष्यते । न केवलमिह तच्छायामात्रस्य दर्शनं, किन्तु “प्रियमण्ड-
नापि, स्नेहात्, पल्लवान्, सेयम्” इत्येषां सरसहृद्यानां तदीयपदानाम्प्युपादान-
मस्ति । बालचरितस्य प्रथमाङ्के शिशुमर्धरात्रे वसुदेवस्य हस्ते कथञ्चिदर्पयित्वा
हृदयेन शिशुदिशं देहेन सूतिकागृहं च द्विदिकं गच्छन्तीं देवकीमधिकृत्य वसु-
देवस्य वचनं —
“हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति ।
यथा नभसि तोये च चन्द्रलेखा द्विधाकृता ॥”
उपोद्घातः ३९
इति। अस्यच्छाया शाकुन्तलप्रथमाङ्कस्थे
“गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥”
इति पद्ये स्पष्टा। स्वप्नवासवदत्तप्रथमाङ्कगतस्य ‘विस्रब्धं हरिणाश्चरन्त्यचकिता
देशागतप्रत्ययाः’ इति पादस्य कयाचिद् भङ्ग्यार्थानुकारः ‘विश्वासोपगमादभिन्न-
गतयः शब्दं सहन्ते मृगाः’ इति शाकुन्तलप्रथमाङ्के कृतः। एवमन्यदपि भास-
नाटकच्छायानुविधानं कालिदासकृतिषु द्रष्टव्यम्। भवभूतेरप्येतन्नाटकचक्रप-
रिशीलनजनिताः संस्कारास्तत्कृतिषु बहुलं प्रस्फुरन्ति। उत्तररामचरितस्य द्विती-
याङ्कगतो ह्यात्रेयीसंवादः स्वप्नवासवदत्तप्रथमाङ्कगतं ब्रह्मचारिसंवादमनुकरोति;
षष्ठाङ्कगतश्च विद्याधरसंवादोऽभिषेकनाटकषष्ठाङ्कगतं विद्याधरसंवादम्। मालती-
माधवपञ्चमाङ्कस्थो दण्डकप्रयोगोऽविमारकपञ्चमाङ्कस्थं दण्डकप्रयोगमनुकरोति।
अपिच, यत् कालिदासात् प्राचीनं मन्यन्ते, तस्मिन् मृच्छकटिके न
भासकाव्यच्छायामात्रस्यानुकरणम्; अपितु भासकाव्यवाक्यानामेव भूयिष्ठानां
मृच्छकटिकविचारः। साक्षान्निवेशनमस्ति। चारुदत्तनाटके हि यानि पद्यानि चू-
र्णकवाक्यानि च, तानि तथैव वा मनागावापोद्वापाभ्यां व्यत्ययकरणेन वा मृ-
च्छकटिके परिपठितानि। तत्र चारुदत्तनाटकस्य प्रथमाङ्के श्लोकः —
“यासां बलिर्भवति मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विभक्तपुष्पाः।
तास्वेव पूर्वबलिरूढयवाङ्कुरासु
बीजाञ्जलिः पतति कीटमुखावलीढः॥”
इति। मृच्छकटिकस्य तु —
“यासां बलिः सपदि मद्गृहदेहलीनां
हंसैश्च सारसगणैश्च विलुप्तपूर्वः।