स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 99, कुल 204 में से
संदर्भ में पढ़ें४२ उपोद्घातः
अस्य भासनाटकचक्रस्य कालिदासकाले निरङ्कुशः प्रचार आसीत् ,
'प्रथितयशसां भाससौमिल्लकविपुत्रादीनाम्' इति कालिदासोक्तेः। शूद्रककाले तु
[margin: अप्रचारः।] स भृशं विरलोऽभवत्। अत एव मृच्छकटिके शूद्रकस्य चारुदत्तना-
टकीयभूयिष्ठवाक्यसङ्कलनसंरम्भोपपत्तिः, तथा परवाक्यसङ्कलननिष्पा-
दितस्य मृच्छकटिकस्य प्रचारोपपत्तिश्च। ततः प्रचारः क्रमशॊ हीयमानो गत एव
तावदभावमद्यत्वे। तत्र किं कारणं स्यात्। न तावद् गुणविरहः कारणं, कालि-
दासादिस्पृहणीयगुणगणपौष्कल्यस्य प्रागुपपादनात्। नापि स्वरसभङ्गसमर्थनीय-
पूर्वोक्तकतिपयप्रयोगसंयुक्तत्वं कारणं, वार्त्तिक-महाभाष्यादिसाचिव्यदूराधिरूढ-
महिमानि सर्वतो व्याप्तिं गते पाणिनीये शब्दानुशासने, कासुचित् ततइतः प्रसू-
त्वरीषु मेधावि-भामहाद्यालङ्कारिकप्रणीतासु शिक्षासु, तदुभयानुसरणनियमप्रण-
ये च संस्कृताध्यायिना सर्वतः संजाते प्रादुर्भूतानां कालिदासकृतीनां तथाविध-
कतिपयप्रयोगसंयुक्तत्वेऽपि प्रचाराव्याघातात्। नापि ग्रन्थेषु कविनामानिवेशः
कारणं, ग्रन्थानिविष्टकविनाम्नामपि रघुवंश-शिशुपालवधादीनां प्रचारदर्शनात्।
अतोऽप्रचारे कारणमदृष्टमेव किञ्चित् कल्प्यं, यद्बलाद् आचार्यव्याडिप्रणीतः
सङ्ग्रहो गुणाढ्यरचिता बृहत्कथेत्येवमादयो ग्रन्था नामशेषतां प्राप्ताः।
एवं चिरप्रनष्टानामतिपुराणानामेषां भासनाटकानां बहूनामयमिदानीं यु-
गपदुपलम्भो मृतपुनरुत्थानवत् कस्य नाम जगति न भवेदाश्चर्याय चानन्दाय च।
एष हि संस्कृतप्रणयिनां पुरावृत्तविमर्शकानां च महार्घो निधिलाभः। अनेन
च प्रनष्टलाभप्रत्ययेन कापि जनिता मे प्रत्याशा—नाटकान्तराण्यपि तस्य जातुचि-
दुपलप्सीयेति, नखलु भासनाटकानि परिगणितानि केनचिद् एतावन्तीति। अ-
पूर्वभासनाटकबृन्दाभिलेखधन्यं जीर्णतालपत्रसम्पुटं ये चिरादरक्षन्, मह्यं चोपा-
कुर्वन्, तेषु 'मणलिकरमठस्वामिषु विशिष्य तज्ज्येष्ठे शङ्करनारायणशर्ममहा-
शये कृतज्ञतामनपायिनीं वहामि। स्मरामि च हार्देन कतिपयतदुपमातृकादायकस्य
पिषारोटिगोविन्दज्योतिषिकस्य (पुत्तियल्) वासुदेवशर्ममहाशयस्य (तालमण्)
कृष्णतन्त्रिमहाशयस्य च।