स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 97, कुल 204 में से
संदर्भ में पढ़ें४० उपॊद्घातः
११. “वीजन्तो मलयानििला अपि ।” (अभिषेक. अङ्क. ३)
१२. “सीतां समाश्वासितुम् ।” (अभिषेक. अङ्क. ७)
१३. “ऋज्वायतां च मुखतोरणलोलमालाम् ।” (स्वप्न. अङ्क. ५)
इत्येवञ्जातीयकाः। अत्र स्थूलाक्षरेषु पदेषु पदव्यत्ययः, 'हस्त्यश्वरथपदातीनी'त्यत्रा-
नैकवद्भावः उच्च्वसामीत्यत्र शब्लोपः, 'वीजन्तः' 'समाश्वासितुमि'त्यनयोर्णिज्-
लोपः, 'ऋज्वायतां चे'त्यत्र पादपूरणार्थश्चशब्दश्च कृतः । किन्त्वत्र समाधान-
मपि पाणिनीयानां सुगमम् । द्वितीये प्रयोगे आ इत्यस्यानुपसर्गतायाः, तृतीये
आत्मनेपदानित्यतायाः, चतुर्थे हस्त्यश्वरथसहिताः पदातयो येषु तानीति बहुव्रीहेः,
षष्ठे गणकार्यानित्यतायाः, एकादशे पचाद्यजन्ताद् वीजशब्दादाचाराक्विपः, द्वादशे
समाश्वासवच्छब्दाण्णिचो बाहुलकलोपस्य, त्रयोदशे चशब्दस्य तुशब्दार्थकतायाः,
अन्येषु यथाकथञ्चित् कर्मवद्भावस्य चाश्रयणेनोपपत्तेः । वस्तुतस्तु नन्दकालि-
कचाणक्यप्राचीनस्यास्मन्महाकवेर्नन्दसहजीविर्षोपाध्यायशिष्यपाणिनिशास-
नानुसरणमसम्भावितमिति एवंविधः प्रयोगस्तत्रभवतो वश्यवाङ्मयस्य महाकवेर्न
दूषणम्, अपितु पुरातनतरतया भूषणमिति विभावनीयम् । अव्युत्पन्नलेखकहस्त-
परम्पराप्रमादात्पतिता वा प्रचाररहितेऽस्मिन् नाटकचक्रेऽपपाठा एषु प्रयोगेषु कति-
पये स्युः ।
एवं प्रतिज्ञानाटिकायां भामहोद्भावितः पूर्वोक्तो न्यायविरोधोऽपि सुप-
रिहरः । चारशून्यतया सचिवोपेक्षया वा वत्सराजस्य महामतेः सतो गजच्छ-
द्भप्रयोगविषयशत्रूद्यमाज्ञानं, कुद्धैर्बहुभिः शत्रुभिरसहायस्य करगतस्य तस्य हनना-
भावः, प्रत्यक्षदृष्टेऽपि कृत्रिमगजे दिवा विशेषाग्रहणम् इत्येतानर्थान् भामहो न्यायवि-
रुद्धान् मन्यते । तत्र हि आद्ययोर्न काचिदनुपपत्तिः, चारवतो भक्तिमन्निपुणसचि-
वचिन्त्यमानकार्यस्य वृद्धदर्शनस्य च सतोऽपि गजमृगयाव्यसनितयामात्यानुम-
तिमप्रतीक्ष्य रभसधाविनो राज्ञः शत्रूद्यमाज्ञानस्य सम्भवाद्, वीरः सावज्ञो मान-
वान् वैरी जीवग्राहं गृहीत्वा स्वस्वामिपादमूले यन्त्रीयते, तदेव तद्वधापेक्षया स्वा-
मिपरितोषकरमिति, करगतस्य बहुप्रहारनिश्चेष्टस्य हननमतिशुद्रकर्मेति च विचा-
रणया निपुणोदारभृत्यसाधारणाया परामात्येन सालङ्कायनेन कृतस्य स्वयोधोप-