स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 178, कुल 204 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । ७१
राजा — न सदृशी । सैवेति मन्ये ।
अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् ।
इदं च मुखमाधुर्यं कथं *जूषितमग्निना ॥ १३ ॥
पद्मावती — (क) अय्यउत्तस्स पडिकिदिं पेक्खिअ जा-
णामि इअं अय्याए सदिसि ण वेत्ति ।
धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ ।
पद्मावती¹ — (दृष्ट्वा) (ग) अय्यउत्तस्स पडिकिदीए सदिस-
दाए जाणामि इअं अय्याए सदिसि² त्ति ।
राजा³ — देवि ! चित्रदर्शनात् प्रभृति४ प्रहृष्टोद्विग्नामिव त्वां
पश्यामि । किमिदम् ।
पद्मावती — (घ) अय्यउत्त ! इमाए पडिकिदीए ‡सदिसी
इह पडिवसदि ।
राजा — न किं वासवदत्ता । (आम् ?)
(क) आर्यपुत्रस्य प्रतिकृतिं प्रेक्ष्य जानामीयमार्यया सदृशी नवेति ।
(ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका ।
(ग) आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयमार्यया सदृशीति ।
(घ) आर्यपुत्र ! अस्याः प्रतिकृत्याः सदृशीह प्रतिवसति ।
१. 'ती—अय्यउत्तपडिकिदिसदितिसाभाए जा' ख. पाठः. २. 'सी किं।' ख. पाठः.
३. 'जा—पद्मावति ! चिं' ख. पाठः. ४. 'ति हृ' ख. पाठः.
- 'यूष हिंसायां, जूष च' इति भ्वादौ । ‡ एतदारभ्य 'आनीयताम्' इत्यन्तं ख. पुस्तके
त्रुटितम् ।