स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 118, कुल 204 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ११
काञ्चुकीयः—भोः ! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यताम-
तिथिसत्कारः ।
ब्रह्मचारी‡—(आचम्य) भवतु भवतु । निवृत्तपरिश्रमोऽस्मि ।
यौगन्धरायणः—भोः ! कुत आगम्यते, क्व गन्तव्यम्,
काधिष्ठानमार्यस्य ।
ब्रह्मचारी—भोः ! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशे-
षणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि ।
वासवदत्ता—(क) §हा लावाणं णाम । लावाणअसं-
कित्तणेण पुणो णवीकिदो विअ मे सन्तावो ।
यौगन्धरायणः—अथ परिसमाप्ता विद्या ।
ब्रह्मचारी—न खलु तावत् ।
यौगन्धरायणः—यद्यनवसिता विद्या, किमागमनप्रयो-
जनम् ।
ब्रह्मचारी—तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।
यौगन्धरायणः—कथमिव ।
ब्रह्मचारी—तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः—श्रूयते तत्रभवानुदयनः । किं सः ।
ब्रह्मचारी—तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी
दृढमभिप्रेता किल।
यौगन्धरायणः—भवितव्यम् । ततस्ततः ।
ब्रह्मचारी—ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्राम-
दाहेन दग्धा ।
(क) हा लावाणकं नाम । लावाणकसङ्कीर्तनेन पुनर्नवीकृत इव मे सन्तापः ।
‡ इतः परं 'भोः ! श्रूयताम्' इत्येव ख. पुस्तकपाठः । § 'स्वगतम्' इत्यपेक्षितम् ।