स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 114, कुल 204 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । ७
काञ्चुकीयः — यदभिप्रेतं भ¹वत्या । भोभो आश्रमवा-
सिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः । इहात्रभवती मगध-
राजपुत्री अहो विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिम-
न्त्रयते ।
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् ।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया
यद्यस्यास्ति §समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥
यौगन्धरायणः — हन्त दृष्ट उपायः । भोः ! अहमर्थी ।
पद्मावती — (क) दिट्ठिआ सह²लं मे तवोवणाभिगमणं ।
तापसी — (ख) संतुट्ठतपस्सिजणं इदं अस्समपदं । आ-
अन्तुएण इमिणा होदव्वं ।
काञ्चुकीयः — भोः ! किं क्रियताम् ।
यौगन्धरायणः — इयं मे स्वसा । प्रोषितभर्तृकामिमामि-
च्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम् । कुतः,
कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रै-
र्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा
शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ ९ ॥
(क) दिष्ट्या सफलं मे तपोवनाभिगमनम् ।
(ख) सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् ।
१. 'वतु भवत्यै' ख. पाठः. २. 'व' क. पाठः.
§ 'स ईप्सितं' इति स्यात् ।